________________
८४]
सिद्धान्तकौमुदी। [पूर्वकृदन्त३०१५ तियो दीर्घात् । (८-२-४६) दीर्घात् थियो निष्ठातस्य नः स्यात् । क्षीणवान् । भावकर्मणोस्तु शितः कामो मया। 'श्रयुकः किति' (सू २३८१) श्रितः, श्रितवान् । भूतः, भूतवान् । जुतः । 'ऊर्णोतेर्नुवनावो वाच्यः' (वा १७५१)। वेत एकास्वान्नेट् , उगुंतः। नुतः। वृतः। ३०१६ रदाभ्यां निष्ठातो न: पूर्वस्य च दः। (८-२-४२) रेफदकाराभ्यां परस्य निष्ठातस्य नः स्यात् । निष्ठापेक्षया पूर्वस्य धातोर्दकारस्य च । शु, 'ऋत इत्-' (सू प्रेति । कर्तरीत्यर्थः । कवताविति फलितम् । क्षियो दीर्घः स्यादिति । क्षिय इति पूर्वसूत्रमनुवर्तते, 'युप्लुवोदीर्घश्छन्दसि' इत्यतो दीर्घ इति चेति भावः । क्षियो दीर्घात् । दीर्घादिति क्षियो विशेषणम् , तदाह दीर्घात् क्षिय इति । दीर्घान्तादित्यर्थः । निष्ठातस्य न इति । 'रदाभ्याम्-' इत्यतस्तदनुवृत्तेरिति भावः । क्षीणवानिति । क्षिधातोः कर्तरि क्तवतुः, 'निष्ठायामण्यदर्थे' इति दीर्घः , तकारस्य नत्वम् , पात्परत्वारणः। क्षितः कामो मयेति । क्षपित इत्यर्थः। 'क्षि क्षये' इत्यस्माद् अन्तर्भावितण्यत्किर्मणि क्तः । भावे तु क्षितं कामेनेत्युदाहार्यम् । अत्र एयदर्थयोर्भावकर्मणोर्विहिते ते दीर्घो न भवति, अण्यदर्थ इत्युक्तेः । दीर्घान्तत्वाभावात् 'क्षियो दीर्घात्' इति नत्वं न । युकः कितीति । भिंत इत्यादौ इरिनषेधस्मारकमिदम् । चुत इति । 'टु चु शब्दे अस्मात् क्तः । ननु ऊर्युत इति कथम् ? अनेकाच्कत्वेन युक इति निषेधस्याप्रवृत्तेरित्यत आह ऊोतेर्नुवदिति । वार्तिकमिदम् । रदाभ्याम् । रदाभ्यामित्यकारावुच्चारणार्थो, तदाह रेफदकाराभ्यामिति । निष्ठायाः त् निष्ठात् , तस्य निष्ठात इति विग्रहः, तदाह निष्ठातस्येति । निष्ठातकारस्येत्यर्थः। नः स्यादिति । नकारः स्यादित्यर्थः । सूत्रे न इति प्रथमान्तम् । अकार उच्चारणार्थः । दकारस्य चेति । नकार इत्यनुषज्यते। इत्याश्रयणे सामर्थ्यात् क्तवत्वोर्विधानमेतदिति नास्त्युक्तदोष इति । एयदर्थो भावकर्मणी इति । यद्यपि याज्या ऋगित्यादौ करणादावपि बाहुलकारण्यद्भवति, तथापि 'तयोरेव-' इति वचनाद्भावकर्मणी एव साक्षादुपात्तोऽर्थ इति स एवेह विवक्षित इति भावः। क्षियो। क्षि क्षये, क्षि निवासगत्योः, द्वयोरपि प्रहणम् । क्षितः काम इति । अन्तर्भावितण्यर्थत्वेन सकर्मकत्वात्कर्मणि क्तः। एतच्च 'अक्षितोत सनेदिमम्' इति मन्त्रव्याख्यायां माधवप्रन्थे स्पष्टम् । भावे तु क्षितं कामेनेत्याधुदाहरणीयम् । इनिषेधसूत्रं स्मारयति युकः कितीति । तुत इति । टुक्षु शब्दे । नुत इति । णु स्तुतौ । वृत इति । वृज संभक्ती, वृञ् वरणे । रदाभ्याम् । इह रदाभ्यामित्यनेन तकारो विशेष्यते न निष्ठा, तेन चरितमुदितमित्यत्र