SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२३ ब्राह्मणः । ब्राह्मणजः। अपिशब्दः सर्वोपाधिव्यभिचारार्थः, तेन धास्वन्तरादपि कारकान्तरेष्वपि क्वचित् , परितः खाता परिखा । ३०१२ कृतवतू निष्ठा । (१-१-२६) एतौ निष्ठासंही स्तः । ३०१३ निष्ठा । (३-२-१०२) भूतार्थवृत्तेर्धातोर्निष्ठा स्यात् । तत्र 'तयोरेव-' (सू २८३३) इति भावकर्मणोः कः । 'कर्तरि कृत्' (सू २८३२) इति कर्तरिकवतुः । उकाविती । स्नातं मया। स्तुतस्त्वया विष्णुः । विष्णुर्विश्वं कृतवान् । ३०१४ निष्ठायामण्यदर्थे । (६-४-६०) रयदर्थो भावकर्मणी, ततोऽन्यत्र निष्ठायां सियो दीर्घः स्यात् । न जात इत्यर्थः। द्विजो ब्राह्मण इति । द्विर्जात इत्यर्थः । 'मातुर्यदले जायन्ते द्वितीयं मौजिबन्धनात्' इत्यादिस्मृतेरिति भावः । अपिशब्द इति । 'सप्तम्यां जनेर्डः' इत्यादिसूत्रेषु डविधिषु यानि विशेषणान्युपात्तानि प्रकृतिविशेषरूपाणि भूते कर्तरीति प्रत्ययार्थविशेषणं च तदतिक्रमार्थ इत्यर्थः। वक्तवतू निष्ठा । क्ल, ववतु अनयोर्द्वन्द्वः। निष्ठेति प्रत्येकाभिप्रायमेकवचनम् । निष्ठा । भूते इति धातोरिति चाधिकृतम् , तदाह भूतार्थत्यादि । भावकर्मणोः। क्त इति । तथा च प्रत्ययविषये कर्तरीति न संबध्यते इति भावः । कर्तरि कवतुरिति । कृत्यक्तखलानामेव भावकर्मणोविधानादिति भावः । 'तयोरेव कृत्यक्त-' इत्यत्र 'लः कर्मणि-' इत्यस्मात् सकर्मकेभ्यः कर्मणि कर्तरि च अकर्मकेभ्यो भावे कतरि चेत्यनुवर्तते । ततश्च अकर्मकेभ्यो भावे कः, सकर्मकेभ्यस्तु कर्मणीति व्यवस्था लभ्यते इति मत्वोदाहरति स्नातं मयेति । अकमकत्वाद् भावे क्तः । स्तुतस्त्वया विष्णुरिति । सकर्मकत्वात् कर्मणि क्तः । कर्तरि क्तवतुमुदाहरति विष्णुर्विश्वं कृतवानिति । निष्ठायामण्यदर्थे। एयदर्थो भावकर्मणी इति । 'ऋहलो:-' इति ण्यतः कृत्यसंज्ञकस्य तयोरेवेति भावकर्मणोरेव प्रवृत्तरिति भावः । ततोऽन्यशूदः कर्मणां जायते द्विजः' इत्यभियुक्तोक्तेः । 'पञ्चम्यामजातो' इत्युक्तं जातावपि दृश्यत इत्याह ब्राह्मणज इति । अपिशब्द इति । यत्तु 'अन्तात्यन्ताध्व-' इति प्रकरणे 'अन्यत्रापि दृश्यते' इत्युपसंख्यातं तद्भूतकालं विनापि यथा स्यादित्येवमर्थम् । वस्तुतस्तु प्रकृतसूत्रस्थस्यापिप्रहणस्य सर्वोपाधिव्यभिचारार्थत्वात्तद्वार्तिकमनेनैव गताथम् । विभावितं चेदम् 'इको गुणवृद्धी' इति सूत्रे जनेर्ड प्रक्रम्य 'गमेरप्ययं डो वक्तव्यः' इति वदता भाष्यकारेण । एवं च प्रकृतसूत्रस्थम् 'अन्येभ्योऽपि दृश्यते' इति वार्तिकमपि गतार्थमिति बोध्यम् । वक्तवतू निष्ठा । ननु वक्रवत्वोः सिद्धयोनिति संज्ञासिद्धिः, सिद्धायां निष्ठासंज्ञायां वक्तवत्वोर्विधानमित्यन्योन्याश्रय इति चेत् । अत्राहुः-भाविनी संज्ञाऽत्र विज्ञायत स भूते भवति यस्योत्पन्नस्य निष्ठति संज्ञा भवति
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy