________________
८२ ]
सिद्धान्तकौमुदी ।
[ पूर्वकृदन्त
क्वनिप् स्यात् । युधिरन्तर्भावितण्यर्थः । राजानं योधितवान् राजयुध्वा । राज• कृत्वा । ३००६ सहे च । ( ३-२-६६ ) कर्मणीति निवृत्तम् । सहयुध्वा । सहकृत्वा । ३००७ सप्तम्यां जनेर्ड: । ( ३-२-६७ ) सरसिजम् । मन्दुरायां जातो मन्दुरजः । 'ब्यापो:-' ( सू १००१ ) इति हस्त्रः । ३००८ पञ्चम्यामजातौ । ( ३-२-६८) जातिशब्दवर्जिते पञ्चम्यन्ते उपपदे जनेर्डः स्यात् । संस्कारजः । अदृष्टजः । ३००६ उपसर्गे च संज्ञायाम् । ( ३-२-६६ ) 'प्रजा स्यात्सन्ततौ जने' । ३०१० अनौ कर्मणि । ( ३-२- १०० ) अनुपूर्वाज्जनेः कर्मण्युपपदे डः स्यात् । पुमांसमनुरुध्य जाता पुमनुजा । ३०१९ अन्येष्वपि दृश्यते । ( ३-२-१२०१ ) श्रन्येष्वप्युपपदेषु जनेर्डः स्यात् । श्रजः । द्विजो
I
राजनि युधि कृञः । युधि, कृव् अनयोः समाहारद्वन्द्वात्पञ्चमी । क्वनिप् स्यादिति । राजनि कर्मण्युपपदे भूतार्थायुधेः कृञश्च क्वनिवित्यर्थः । ननु युधेरकर्मकत्वात् तत्र कर्मण्युपपदे इत्यस्य कथमन्वय इत्यत श्राह युधिरन्तर्भावितेति । राजकृत्वेति । राजानं कृतवानित्यर्थः । सहे च । सहशब्दे उपपदे युधिकृभ्यां क्वनिबित्यर्थः । सप्तम्यां जनेर्डः । सप्तम्यन्ते उपपदे जनेः मूतार्था इत्यर्थः । सरसिजमिति । डित्त्वसामर्थ्यादभस्यापि टेर्लोपः । ' हलदन्तात् -' इति 'तत्पुरुषे । कृति-' इति वा अलुक् । मन्दुरज इति । 'वाजिशाला तु मन्दुरा' इत्यमरः पञ्चम्यामजातौ । जनेरिति । भूतार्थादिति शेषः । संस्कारजमिति । संस्काराज्जातमित्यर्थः । उपसर्गे च । जनेर्ड इति शेषः । संज्ञायामिति समुदायोपाधिः । अनौ कर्मणि । ननु जनेरकर्मकत्वात्तत्र कर्मण्युपपदे इत्यर्थस्य कथमन्वय इत्यत
पुमांसमनुरुध्येति । अनुरुध्य जननं धात्वर्थ इति भावः । पुमनुजेति । पुंस् इति पूर्वपदे संयोगान्तलोप इति भावः । अन्येष्वपि दृश्यते । अज इति ।
पश्यन्ति विश्वश्वानि तानि नयनानि येषां ते विश्वदृश्वनयना इत्येवं कनिबन्तस्य लटा विप्रहेऽपि न क्षतिः । प्रत्ययान्तरनिवृत्त्यर्थं सूत्रमित्येवं वृत्तिकारादिभिर्व्याख्यातत्वात् । कालान्तरनिवृत्यर्थमिदमिति कैरप्यभियुक्तेरनुक्तत्वादिति दिक् । राजनि युधि कृञः । सहे च । इदमपि सूत्रद्वयं 'दृशेः क्वनिप्' इतिवन्नियमार्थमिति न्याय्यम् वस्तुतस्तु दृशिग्रहन निर्वाहस्यागतिकत्वादियं त्रिसूत्री विधात्रीत्यपि सुवचम् | प्राचां ग्रन्थास्त्विोदासौना एवेति शब्दकौस्तुभ स्थितम् । मन्दुरायामिति । 'वाजिशाला तु मन्दुरा' इत्यमरः । पुमनुजेति । इह जनिः सकर्मकः, अनुरोधविशिष्टजननवृत्तित्वात् । अन्येष्वपि दृश्यते । 'सप्तम्यां जने:--' इत्युक्तमसप्तम्यामपि दृश्यत इत्याह अजः । द्विज इति । न जायत इत्यजः, द्विर्जातो द्विजः, 'जन्मना जायते