________________
प्रकरणम् ६६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१ काशिका । एवमुत्तरसूत्रेऽपि । ३००१ अग्नौ चेः। (३-२-६१) अनिचित् । ३००२ कर्मण्यग्न्याख्यायाम् । (३-२-६२) कर्मण्युपपदे कर्मण्येव कारके चिनोतेः किप स्याद् अग्न्याधारस्थलविशेषस्याख्यायाम् । श्येन इव चितः श्येनचित् । ३००३ कर्मणीनि विक्रियः । (३-२-६३) कर्मण्युपपदे विपूर्वात्क्रीणातेरिनि स्यात् । 'कुरिसतग्रहणं कर्तव्यम्' (वा २०४७)। सोमविक्रयी । घृतविक्रयो। ३००४ दृशः क्वनिप् । (३-२-६४) कर्मणि भूत इत्येव । पारं दृष्टवान पारदृश्वा । ३००५ राजनि युधि कृञः। (३-२-६५) इति । पूर्ववद् व्याख्येयम् । एवमिति । 'अग्नौ चेः' इत्युत्तरसूत्रेऽपि चतुर्विधो नियम इत्यर्थः । अग्ना चेः । अग्नौ कर्मण्युपपदे भूतार्थवृत्तेश्विनोतेः क्विप स्यादित्यर्थः। अग्निचिदिति । अग्न्याख्यं स्थण्डिलविशेषमिष्ट कामिश्चितवानित्यर्थः । कर्मण्यग्न्याख्यायाम् । कर्मणीत्यनुवृत्तमुपपदसमर्पकम् । अत्रत्यं तु कर्मणीयतप्रत्ययार्थसमर्पकम् । तथा चात्र कर्तरीति न संबध्यते, तदाह कर्मण्युपपदे इत्यादि । चिनोतरिति । भूतार्थादित्यपि बोध्यम् । श्येन इवेति । श्येनशब्दः श्येनसदृशे नाक्षणिक इति भावः । श्येनाकृतिक इति यावत् । कर्मणीनि विक्रियः। इनि इत्यविभक्तिकम् । विपूर्वस्य क्रीब्धातोर्विक्रिय इति पक्षम्यन्तम् । कुत्सितेति । कुत्सिते कर्मण्युपपदे उक्तविधिर्भवतीत्यर्थः : सोमविक्रयीति । सोमव्यं च विक्रीयमाणं विक्रेतुः कुत्सामावहति, तद्विक्रयस्य निषिद्धत्वादिति भावः । दृशः क्वनिप् । 'प्रातो मनिन्क्वनिब्वनिपश्च, अन्येभ्योऽपि दृश्यन्ते' इत्येव क्वनिपि सिद्ध तत्सहचरितमनिनादिव्यावृत्त्यर्थमिदम् , सोपपदाणादिवाधर्नाथ च । निष्ठा तु भवत्येव, सो पदप्रत्ययस्यैवात्र पुनः क्विन्ग्रहणेन निवृत्तेः । पारं दृष्टवान् । क्विब् न भवति किं तु सोमक्रायः अग्निभार इत्यणेव भवति । भूत एव किपो नियतत्वात्सोमं सुनोति सोष्यति वेत्यर्थे क्विब् न भवति । तथा अग्निं चिनोति चेष्यति वेत्यर्थे क्विबभावः, किंवणेव । कर्मण्यग्न्याख्यायाम् । श्येनचिदिति । समु. दायोऽयम् आहवनीयधारणार्थे इष्टकानिर्मितस्थलविशेषे निरूढः । कर्मणीति । कुत्सितग्रहणमिति । एतच्च वार्तिकं पुनः कर्मग्रहणसामर्थ्यालभ्यते, यत्कर्म कियया संबध्यमानं कर्तृकुत्सामावहति तत्रयर्थः । सोमादयश्च विक्रीयमाणाः शाख्ने प्रतिषेधात्कुत्सावहाः। कुत्सितग्रहणान्नेह धान्यविक्रायः । दृशः क्वनिप् । 'अन्येभ्योऽपि दृश्यन्ते' इति सिद्धे नियमार्थमिदं क्वनिवेव यथा स्यात्तत्सहनिर्दिष्टौ मनिन्वनिपौ माभूतां न वा अगादय इति । सोपपदप्रत्ययस्यैव नियमेन निवर्तनानिष्ठा तु भवत्येव । पारं दृष्टवानिति । एवं स्थिते 'विश्वदृश्वनयना वयमेव' इत्यादौ विश्वं