________________
८०] सिद्धान्तकौमुदी। [पूर्वकृदन्तकृतः। (३-२-८६) सौ कर्मादिषु च कृतः विप्स्यात् । त्रिविधोऽत्र नियम इति काशिका । सुकृत् । कर्मकृत् । पापकृत् । मन्त्रकृत् । पुण्यकृत् । विवेवेति नियमारकर्म कृतवानित्यत्राण न। कृज एवेति नियमान्मन्त्रमधीतवान् मन्त्राध्यायः, अत्र न क्किप् । भूत एवेति नियमान्मन्त्रं करोति करिष्यति वेति विवक्षायां न विप् । स्वादिष्वेवेति नियमाभावादन्यस्मिन्नप्युपपदे किप , शास्त्रकृत् । भाष्यकृत् । ३००० सोमे सुजः। (३-२-६०) सोमसुत्। चतुर्विधोऽत्र नियम इति क्विबेवेति च भाष्यमित्यर्थः । एवं च हन्तेरेव भूत एवेति नियमद्वयमुपेक्ष्यमिति भावः। सुकर्म । सु, कर्म, पाप, मन्त्र, पुण्य एषां पञ्चानां द्वन्द्वः । त्रिविध इति । सुकर्मादिषु भूते कृत्रः क्विबेवेति, सुकर्मादिषु भूते कृञ एव क्विबिति, सुकर्मादिषु भूत एव कृञ इति त्रिविध इत्यर्थः । अण् नेति । क्तवतुस्तु भवत्येव, सोपपदप्रत्ययस्यैव नियमेन व्यावृत्तेरिति भावः । स्वादिष्वेवेति । सुकर्मादिषु पञ्चस्वि. त्यर्थः । सोमे सुञः। सोमे कर्मण्युपपदे भूते सुनोतेः क्विबित्यर्थः । चतुर्विध कालनियमफलं तु ब्रह्माणं हतवान् ब्रह्मघातीति प्रयोगाभावः । सोपपदश्च प्रत्ययो नियमेन व्यावयेते, निष्ठा तु भवत्येव वृत्रं हतवानिति । भाष्यकारस्तु प्रकृतिकालनियमावेवाशिश्रियत् । तस्यायमाशयः-धातुकालौ हि नेह सूत्रे श्रुतौ किंतु प्रकरणलक्षपाजघन्यप्रमाणेनोपस्थिती । अतस्तयोरेवोपरोधो न्याय्यो न तूपपदप्रत्यययोः, श्रुत्युपस्थापितत्वात् । एवं न्यायोपष्टब्धेन भाष्येण सह विरोधाद् वृत्तिमतमुपेच्यमेवेति कैयटे स्थितम् । यत्त्विह हरदत्तेनोहं धातूपपदविषयं नियमद्वयं भाष्ये प्रदर्शितमिति, तत्र धातुकालविषयमिति वक्तव्ये उपपदग्रहणं प्रामादिकमित्यवधेयम्। सुकर्म । त्रिविध इति । धातुनियमस्त्विह नेष्यत इति भावः । विबेवेतीति । भूते किबवेति प्रत्ययान्तरसंबन्धनिवृत्तिफलककालनियमादित्यर्थः । कृञ एवेतीति । सुकर्मादिषु कृष एवेति धात्वन्तरसंबन्धनिवृतिफलकोपपदनियमादित्यर्थः । भत एवेतीति । भून एव विविति कालान्तरसंबन्धनिवृत्तिफलकप्रत्ययनियमादित्यर्थः । स्वादिष्वेवेतीति । स्वादिष्वेव कृष इत्युपपदान्तरसंबन्धनिवृत्तिफलकधातुनियमाभा. वादित्यर्थः । सोमे सुत्रः । इहापि चतुर्विधो नियम इति वृत्तिः। एवमुत्तरसूत्रेऽपि । तत्र भूतकालस्य विपि नियतत्वात्सोमं सुतवान् सोमसावः, अग्निं चितवान् अमिचाय इत्यण न भवति । सुनोतेः सोम इव उपपदे नियतत्वाचिनोतेस्त्वनावेवोपपदे नियतत्वात् । सुरां सुतवान् सुरासुत् इष्टकाचितवानिष्टकाचिदिति न भवति, किं तु सुरासाव इष्टकाचाय इत्यणेव भवति, सोमस्य सुनोतावेव धातोनियतत्वात् । अमस्तु चिनोतावेव नियतत्वात् । सोमं क्रीतवान् सोमक्रीः, अग्निं भृतवान् अग्निमृद् इति