SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६६ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ७ विवेवेति द्विविधो नियम इति भाष्यम् । २६६६ सुकर्मपापमन्त्रपुण्येषु वृत्तेराह कर्मखिति । हन्तेर्भूते इति । भूतार्थवृत्तेर्हन्तेरित्यर्थः । चतुर्विध इति । पुनर्विधानलब्धस्य एवकारस्य विनिगमनाविरहाच्चतुर्ष्वपि निवेश इति भावः । तत्र ब्रह्मादिष्वेव इन्तेरिति नियमात् पुरुषं हतवानित्यत्र न क्विप् । ब्रह्मादिषु हन्तेरेवेति नियमाद् ब्रह्म अधीतवानित्यत्र न क्विप् । ब्रह्मादिषु हन्तेर्भूतकाले एवेति नियमाद् ब्रह्म हन्ति हनिष्यति वेत्यत्र न क्विप् । क्विवेवेति नियमाद् ब्रह्म हतवा - नित्यत्र अण् न भवति, कितु 'ब्रह्मभ्रूण-' इति क्विबेव । निष्ठा तु भवत्येव, सोपपदप्रत्ययस्यैव नियमेन व्यावृत्तेः । द्विविध इति । उभयतो नियमोऽयम्-ब्रह्मादिष्वेव i तत्र नास्ति तथापि शब्दशक्तिस्वाभाव्यादिदं लभ्यत इत्याहुः । चतुर्विध इति । अयमाशयः -- इह सूत्रे श्रुतत्वात्पूर्वं ब्रह्मादय उद्देश्यास्ततोऽनन्तरं प्रकृतित्वाद्धन्तिस्ततः परिशेषाद्भूत इति । क्विप् तु सर्वान्ते निर्देष्टव्यः, विधेयत्वात् । तदेवं वचनव्यक्तिः, ब्रह्मादिषूपपदेषु हन्तेर्भूत क्किबिति । एवं स्थिते यत्रैवकारस्ततोऽन्यत्र नियम इति न्यायेन नियमोऽत्र भवन्ननन्तरे भवति । ततश्च ब्रह्मादिष्वेवेत्यवधारणे हन्तेस्तदनन्तरं निर्दिष्टत्वादुपपदान्तरसंबन्धनिवृत्तिफलो नियमो भवति । ब्रह्मादिषु हन्तेरेव भूते इत्यवधारणे त्वनन्तरत्वाद्विशेषेऽपि प्राथम्यादुपपदनियमो धात्वन्तर निवृत्ति फलकः, ब्रह्मादिषु हन्तेर्भूते एव क्विबित्यवधारणे तु क्किब्हन्त्योरानन्तर्येऽविशिष्टेऽपि प्राधान्यात्कालान्तरसंबन्धकवृत्तिफलकः प्रत्ययनियमः । ब्रह्मादिषु हन्तेर्भूते क्किबेवेति वचनव्यक्तौ प्रत्ययान्तरसंबन्धनिवृत्तिफलकः कालनियमः । सोऽयं प्रकृत्युपपद प्रत्यय कालनियमानां विवेकः । अगृह्यमाणविशेषात्तु चतुर्विधस्यापोह प्रहणम् । ब्रह्मादिष्वेव हन्तेरिति प्रकृतिनियमे भूत इत्याश्रयणाद्वर्तमानकाले भविष्यत्काले चोपपदान्तरेऽपि भवत्येव । पुरुषं हन्ति हनिष्यति वा पुरुषहा । ' अरिहयोरिहयोगविचक्षणः ' । श्ररीन् हन्तीति परिहास चासौ योगश्च अरिहयोगस्तत्र विचक्षण इत्यर्थः । प्रकृतिनियम फलं तु पुरुषं हतवान् पुरुषहा इति भूतार्थे प्रयोगाभावः । ब्रह्मादिषु हन्तेरेवेत्युपपदनियमेऽपि भूत इत्याश्रयणाद्वर्तमान भविष्यत्कालयोघ त्विन्तरादपि भवत्येव । वृत्रं जयति जेष्यति वा वृत्रजिदिति । उपपदनियमफलं तु वृत्रं जितवान् वृत्रजिदिति प्रयोगाभावः । भूत एव क्विबिति प्रत्ययनियमेऽपि ब्रह्मादिष्वित्युक्तेरुपपदान्तरे वर्तमान भविष्यत्कालयोर्हन्तेः किब् भवत्येव । पुरुषं हन्ति हनिष्यति वा पुरुषहा रिति प्राग्वत् । प्रत्ययनियमफलं तु ब्रह्माणं हन्ति ब्रह्महेत्यादिप्रयोगाभावः । भूते क्किबेवेति कालनियमेऽपि ब्रह्मादिष्वित्युक्तेरुपपदान्तरे भूतेऽपि प्रत्ययान्तरं भवत्येव, पितृव्यं हतवान् पितृव्यघाती । इह 'कर्मणि हनः' इति भूते णिनिः ।
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy