SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तकौमुदी । [ पूर्वकृदन्त भावश्च || २६६५ भूते । ( ३-२-८४ ) अधिकारोऽयम् । 'वर्तमाने लट् " ( सू २१५१ ) इति यावत् । २६६६ करणे यजः । ( ३-२-८५ ) करणे उपपदे भूतार्थायजेर्णिनिः स्यात्कर्तरि । सोमेनेष्टवान् सोमयाजी । श्रग्निष्टोम - याजी | २६६७ कर्मणि हनः । ( ३-२-८६ ) पितृव्यघाती । कर्मणीत्येतत् 'सहे च' ( सू ३००६ ) इति यावदधिक्रियते । २६६८ ब्रह्मभ्रणवृत्रेषु क्विप् । ( ३-२-८७ ) एषु कर्मसूपपदेषु हन्तेर्भूते क्विप् स्यात् । ब्रह्महा । भ्रूणहा । वृत्रहा । 'क्विप् च' ( सू २६८३ ) इत्येव सिद्धे नियमार्थमिदम् । ब्रह्मादिष्वेव, हन्तरेव, भूत एव, विजेवेति चतुर्विधोऽत्र नियम इति काशिका | ब्रह्मादिष्वेव ७८ ] इति । ‘ह्रस्वो नपुंसके—' इत्यनेनेति शेषः । मुममोरभावश्चेति । मुमपवादस्य श्रमः ' स्वमोर्नपुंसकात्' इति लुकि सति तयोः प्रयोगाभावः फलतीत्यर्थः । भूते । अधिकारोऽयमिति । धातोरित्यधिकृतम् । ततश्च भूतार्थवृत्तेर्धातोरित्युत्तरत्रानुवर्तते इति फलति । वर्तमाने इति । 'वर्तमाने लट्' इत्यतः प्रागित्यर्थः । अत्र व्याख्यानमेव शरणम् । करणे यजः । सोमेनेति । सोमाख्यलताविशेषरसेन यागं कृतवानित्यर्थः । सोमलतारसद्रव्यकेन यागेन पूर्वमुत्पादितवानिति मीमांसकाः । एतच्च द्वितीयस्य द्वितीये 'द्रव्यसंयोगाच्चोदना पशुसोमयो:' इत्यधिकरणे अध्वरमीमांसाकुतूहल वृत्तौ प्रपञ्चितमस्माभिः । अग्निष्टोमयाजीति । श्रग्निष्टोमाख्ययागेन पूर्वं भावितवानित्यर्थः । कर्मणि हनः । कर्मण्युपपदे भूतार्थाद् हनेणिनिः स्यात् । पितृव्यघातीति । पितृव्यं हतवानित्यर्थः । 'हनस्तः' इति तः, ‘हो हन्तेः-' इति हस्य घः । ब्रह्मभ्रूणवृत्रेषु क्विप् । पूर्वसूत्रात्कर्मग्रहणानु कमिति भाष्यादौ स्थितम् । स्यादेतत् – नपुंसक हस्खे कृते मुमः प्राप्तिरेव नास्ति, कथमत्रापवादेन श्रमा बाधादित्युक्तिः संगच्छेत, 'अरुर्द्विषत् -' इति सूत्रे हि श्रन्तग्रहणस्य समीपवाचित्वेन 'खित्यनव्ययस्य' इति हखे कृते पश्चान्मुमिति व्याख्यातत्वात् । सत्यम् । जनमेजय इत्यत्र स्वतः सिद्धेऽपि हस्खे यथा 'खित्यनव्ययस्य' इति पुनर्हखो मुमर्थं स्वीक्रियते तथात्रापि भवेदित्यस्त्येव मुमः प्राप्तिरिति । भूते । धातोरित्यधिकाराद्धात्वर्थस्य विशेषणमिदम् । भूतेऽर्थे विद्यमानाद्धातोरित्यर्थः । करणे । स्वरितत्वाण्णिनिरेवानुवर्तते न तु खश् इत्याह णिनिः स्यादिति । सोमेन लताविशेषेण यागं कृतवानित्यर्थः । अग्निष्टोमेति । श्रग्निष्टोमस्तोत्रेण समाप्यमानो यो `यागः स लक्षणयाऽग्निष्टोमस्तेनापूर्वं भावितवानित्यर्थः । उक्तं च काशिकायाम् 'अग्निष्टोमः फलभावनायां करणम्' इति । कर्मणि हनः । पितृव्यघातीति । अत्र काशिका - ' कुत्सितग्रहणं कर्तव्यमिह माभूत् चोरं हृतवान्' इति । यद्यपीदं भाष्ये
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy