________________
प्रकरणम् ६६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [७७ मात्मानं मन्यते श्रिमन्यं कुलम् । भाष्यकारवचनाच्छीशब्दस्य हस्खो मुममोर. विधिः । मुमि तु अकारो न श्रूयेत । स्त्रीम्मन्य इति । इयङभावपक्षे 'अमि पूर्वः'। अम्प्रत्ययवदित्यस्य प्रयोजनान्तरमाह नू, नरम्मन्य इति । नृ इत्यविभकिकम् उदाहरणे नृशब्दस्य समावेशसूचनार्थम् । नरनात्मानं मन्यते इत्यर्थे मनेः खश, श्यन् , सुपो लुक्, नृशब्दादम् अम्प्रत्ययवदित्यतिदेशाद् ‘ऋतोऽङि-' इति गुणः । अत्रापि रेफादकारश्रवणार्थः अम्विधिः । मुमि त्वकारो न श्रूयेत । अम्प्रत्ययवदि. त्यस्य प्रयोजनान्तरमाह भुवम्मन्य इति । भुवमात्मानं मन्यते इत्यर्थे मनेः खश्, श्यन् , सुपो लुक्। भूशब्दादम् , अम्प्रत्ययवदित्यतिदेशाद् 'अचि श्नुधातु-' इत्युव । अतिदेशाभावे तु उवङ् न स्यात् , तस्याजादिप्रत्यये विधानात् । श्रिमन्यमिति । मनेः खश श्यन् । अत्र मननकियां प्रति कुलत्वेन रूपेण कुलं कर्तृ, तस्यैव कुलस्य अध्यारोपितश्रीत्वेन रूपेण कर्मत्वं चेति स्थितिः । एवं च श्रीशब्दस्य नित्यस्त्रीलिङ्गस्यापि कुले लक्षणया वृत्तेर्नपुंसकत्वम् । यत्र हि प्रातिपदिकस्यैव लक्षणा प्रसिद्धा तत्र पूर्वलिङ्गत्यागः । यथा प्रकृते श्रीशब्दः । यत्र तु पदस्य लक्षणा, न तत्र पूर्वलिङ्गत्यागः, यथा गङ्गायां घोष इत्यादौ इति 'पुंयोगादाख्यायाम्' इति सूत्रे प्रकृतसूत्रे च भाष्यकैयटयोर्मर्यादा स्थिता । एवं च कालिम्मन्यं कुलमित्यत्र कालीशब्दस्य न स्त्रीलिङ्गपरित्यागः, प्रयोगानुसारेण तत्र पदलक्षणाया एवाभ्युपगमात् श्रिमन्यं कुलमित्यत्र तु प्रयोगानुसारात् श्रीशब्दस्य प्रातिपदिकस्यैव लक्षणेति पूर्वलिङ्गपरित्यागाद् नपुंसकलिङ्गत्वमेवाश्रीयते । ततश्च श्रीशब्दस्यात्र नपुंसकत्वात् 'खित्यनव्ययस्य' इति बहिर बाधित्वा 'हखो नपुंसके प्रातिपदिकस्य' इति हख एव न्याय्यः । मुंमपवादे 'इच एकाचः-' इति अमि कृते तस्य 'स्वमोनपुंसकात्' इति लुक । तथा च श्रिमन्य कुलमिति सिद्धम् । न च गाम्मन्य इत्यादावपि 'सुपो धातुप्रातिपदिकयोः' इति लुक् स्यादिति वाच्यम् , 'इच एकाचः-' इत्यमः 'सुपो धातु-' इति लुगपवादत्वात् । 'स्वमोर्नपुंसकात्' इति लुकस्तु नायमम्विधिर्बाधकः, मध्येऽपवादन्यायाद् इति प्रकृत. सूत्रे भाष्यकैयटयोः स्पष्टम् , तदाह भाष्यकारवचनाच्छीशब्दस्य इख भाष्यकारेति । अयं भावा-यथा पृष्ठादयः शब्दाः पुंयोगास्त्रियां वर्तन्ते पृष्ठी गणिकेति तथेह श्रीशब्दः परित्यक्तखलिङ्गः क्लीवः सन् कुले वर्तते, तत्र 'हखो नपुंसके-' इति ह्रस्वः, मुम् तु न । अपवादेन अमा बाधात् । 'खमोर्नपुंसकात्' इत्यमो लुक् । न चैवं गांमन्य इत्यादावपि 'सुपो धातुप्रातिपदिकयोः' इति लुक् स्यादिति वाच्यम्, अविधिसामर्थ्यादेव तद्वाधादित्याहुः । अम्प्रत्ययस्तु 'मध्येऽपवादा-' इति न्यायेन 'सुपो धातुप्रातिपदिकयोः' इति लुकमेव बाधते, न तु 'खमोर्नपुंसकात्' इति