SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ७६ ] सिद्धान्तकौमुदी। [पूर्वकृदन्त२९४३)। कालिंमन्या । अनम्ययस्य किम्-दिवामन्या । २६६४ इच एकाचोऽम्प्रत्ययवञ्च । (६-३-६८) इजन्तादकाचोऽम्स्यात्स च स्वाथम्वत् खिदन्ते परे । 'श्रोतोऽम्शसोः' (सू २६५)। गाम्मन्यः। 'वाऽम्शसोः' (सू ३०२)। स्त्रियम्मन्यः, स्त्रीम्मन्यः । नु, नरम्मन्यः । भुवम्मन्यः । श्रियश्यनि कृते आह खित्यनव्ययस्येति । 'स्त्रियाः पुंवत्-' इति पुंवत्त्वं बाधित्वा पर• त्वाद् ध्रख इत्यर्थः । दिवामन्येति । अधिकरणशक्तिप्रधानस्यापि दिवाशब्दस्य वृत्तिविषये कर्मत्वं बोध्यम् । इच एकाचः। एकाचः अमिति छेदः । अम् च अम् चेत्येकशेषः। एकं विधेयसमर्पकम् । इच एकाचोऽमिति प्रथमं वाक्यम् । इच इत्येकाच इति च पञ्चमी । 'अलुगुत्तरपदे' इत्युत्तरपदाधिकाराद् प्राक्षिप्तं पूर्वपदम् इचा विशेष्यते । तदन्तविधिः, तदाह इजन्तादेकाचोऽम् स्यादिति । मुमोऽपवादः । द्वितीयम् अम्पदं प्रत्ययवदित्येकदेशेन प्रत्ययेन समानाधिकरणं संबध्यते । असामर्थेऽपि वतिप्रत्यय आर्षः । श्रमप्रत्ययवदिति द्वितीयं वाक्यं संपद्यते । स्वादिप्रत्ययेषु यद् द्वितीयैकवचनं तदेवात्र अमिति विवक्ष्यते, व्याख्यानात् , तदाह स च स्वाद्यम्वदिति । एतत्सर्व भाष्ये स्पष्टम् । खिदन्ते पर इति । खिदन्ते उत्तरपदे परत इत्यर्थः । 'खित्यनव्ययस्य' इत्यतः खितीत्यनुवर्तते इति भावः । अम्प्रत्ययवदित्यतिदेशस्य प्रयोजनमाह औतोम्शसोरिति । गाम्मन्य इति । गामात्मानं मन्यते इत्यर्थे मनेः खशि श्यन् , सुपो लुक्, गोशब्दादम्, अम्प्रत्ययवदित्यतिदेशाद् मकारस्य 'न विभक्तो-' इति नेत्त्वम् । 'श्रौतोऽम्शसोः' इत्योकारस्य श्राकार इति भावः । अम्प्रत्ययवदित्यस्य प्रयोजनान्तरमाह वाऽम्शसोरिति । त्रियम्मन्य इति । त्रियमात्मानं मन्यते इत्यर्थे मने खशि श्यन् । सुपो लुक् । स्त्रीशब्दाद् 'वाऽम्शसोः' इति इयविकल्पः । अत्र यकारादकारश्रवणार्थम् अम्पण्डितत्वविशिष्टरूपेण च कर्मत्वं बोध्यम् । आत्ममाने किम् , दर्शनीयमानी देवदत्तो यज्ञदत्तस्य । कालिंमन्येति । 'स्त्रियाः पुंवत्-' इति प्राप्तं पुंवद्भावं बाधित्वा परत्वाद् ह्रखः। यत्त्वत्र 'क्यङ्मानिनो:--' इति प्राप्तः पुंवद्भाव इति प्रसादकृतोतं तमसोक्तमेव, मानिनरूपाभावस्य स्पष्टत्वात् । दिवामन्येति । अधिकरणशक्तिप्रधानस्याप्यस्य वृत्तिखभावात्कर्मत्वम् । इच एकाचः । अम्ग्रहणमिहावर्तते, तत एकेन अम् विधीयते परेण प्रत्ययो विशेष्यते तदाह स्वाधम्वदिति । एवं च 'न विभक्ती तुस्माः' इति निषेधान्मकारस्य नेत्संज्ञा, अत एव परश्च भवति । 'औतोsमशसोः' इत्यत्र शसा साहचर्यात् सुबेवाम् गृह्यत इत्युक्तत्वादोत आकारश्च भवतीत्याशयेनोदाहरति गांमन्य इति । नरंमन्य इति । 'ऋतोऽङि-' इत्यादिना गुणः । १ 'अमिति' इति क्वचिन्नास्ति ।
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy