________________
प्रकरणम् ६६ ] बालमनोरमा तत्त्वबोधिनीसहिता ।
[ ७५
जात्यर्थ च सूत्रम् । कर्तरि किम् - श्रपूपानिव भक्षयति माषान् । उपमाने किम्उष्ट्रः क्रोशति । २६६० व्रते । ( ३-२-८० ) णिनिः स्यात् । स्थण्डिले 'शायी । २६६१ बहुलमाभये । ( ३-२-८१ ) पौनःपुन्ये द्योत्ये सुप्युपपदे णिनिः । क्षीरपायिण उशीनराः । २६६२ मनः । ( ३-२-८२ ) सुपि मन्यतेर्णिनिः स्यात् । दर्शनीयमानी । २६६३ आत्ममाने खश्च । ( ३-२८३) स्वकर्मके मन्ने वर्तमानान्मन्यतेः सुपि खश् स्यात् । चारिणनिः । पण्डितमात्मानं मन्यते पण्डितम्मन्यः, पण्डितमानी । 'खित्यनव्ययस्य' ( सू इति सिद्धे किमर्थमिदमित्यत श्राह ताच्छील्यार्थमिति । व्रते । णिनिः स्यादिति । सुप्युपपदे णिनिः स्याद् व्रते गम्ये इति यावत् । स्थण्डिले शायीति । 'तत्पुरुषे कृति बहुलम्' इत्यलुक् बहुलमाभीक्ष्ण्ये । जातावप्युपपदे प्राप्त्यर्थमिदम् । तद् ध्वनयन्नुदाहरति क्षीरपायिण इति । मनः । दैवादिकस्यैव मनेर्ग्रहणं न तु तनादिकस्य, बहुलग्रहणानुवृत्तेः, तदाह सुपि मन्यतेरिति । मनुतेर्ग्रहणे तु बाधकमुत्तरसूत्रे वक्ष्यते । श्रात्ममाने खश्च । श्रात्मनः स्वस्य मानो मननम् आत्ममानः, तदाह स्वकर्मके मनने इति । पण्डितम्मन्य इति । खशः शिवेन सार्वधातुकत्वात् श्यन् । खित्त्वाद 'अरुद्विषत् -' इति मुम् । तानादिकस्य मनेर्ग्रहणे तु उविकरणः स्यात् । कालीमात्मानं मन्यते इत्यर्थे खशि ताच्छील्ये णिनिः । उपसंख्यानेन ज्ञापकेन वा साधुकारिणि णिनिः । ' आवश्यकाध - मर्ययोर्णिनिः' इत्यावश्यके णिनिस्तु तद्धर्मे पर्यवस्यति न त्विह 'श्रा के :-' इति सूत्रस्य व्यापारोऽस्ती ते । ननु ब्रह्मवादिनो वदन्ति इत्यत्र ब्रह्म वेद इति ब्रह्मशब्दस्यापि जातिवाचकत्वत्कथमिह ताच्छील्ये सिनिरिति समर्थनमिति चेत् । नव्याः ‘सुप्यजातौ—' इत्यत्र प्राणिजातिरेव पर्युदस्यते ताच्छील्यसमभिव्याहारात् । ब्राह्मणानामन्त्रयितेति प्रत्युदाहरणानुगुण्याच्चेति न काप्यनुपपत्तिरिति । मनः । बहुलग्रहणानुवृत्तेरिह मन ज्ञान इति देवादिकस्यैव ग्रहणं न तु मनु अवबोधन इति तानादिकस्य । तेन उत्तरसूत्रे खशि श्यन्नेव भवति नतूप्रत्ययस्तदाह मन्यतेरिति । आत्ममाने । मननं मानः, भावे घञ्, आत्मनो मान इति कर्मणि षष्ठया समासः । स्वपर्याय आत्मशब्दः प्रत्ययार्थत्वेन सन्निहितकर्ता स्वपदार्थस्तदाह स्वकर्मक इत्यादि । चादिति । ननु वासरूपविधिना लभ्यत एव णिनिरिति किमर्थश्चकार इति चेत् । अत्राहुः · - चकारेणाविच्छेदाय णिनिः समुच्चीयते । तेन 'करणे यजः' इत्यादौ णिनिरेवानुवर्तते, न तु खश्, एवं चोक्कप्रयोजनानुरोधेन चानुकृष्टं नोत्तरत्रेतीह न प्रवर्तते इति । पण्डितमात्मानमिति । एकस्याप्यात्मनः स्वरूपेण कर्तृत्वं
অ
1
१ ' स्थण्डिलशायी' इत्यन्यत्र पाठः ।