________________
७४]
सिद्धान्तकौमुदी। [पूर्वकृदन्तनाम् 'अनुयायिवर्ग:' 'पतत्यधो धाम बिसारि' 'न वचनीयाः प्रभवोऽनुजी. विभिः' इत्यादौ । 'साधुकारिण्युपसंख्यानम्' (वा २०३८ ) 'ब्रह्मणि वदः' (वा २०३६ ) अताच्छोल्यार्थ वार्तिकद्वयम् । साधुदायी । ब्रह्मवादी। २९८६ कर्तर्युपमाने । (३-२-७६ ) णिनिः स्यात् । उपपदार्थः कर्ता प्रत्ययार्थस्य कर्तुंरुपमानम् । उष्ट्र इव कोशति उष्ट्रकोशी। वाझावी । अताच्छील्यार्थ थम् , उपसर्गे अनुपसर्गे च सुबन्ते उपपदे धातोणिनिरित्येव भाष्ये उदाहृतत्वादिति भावः । तथा च 'उत्प्रतिभ्यामाङि सर्तेः' इति वचनं नादर्तव्यम् । भाष्ये तत्पाठस्तु प्रक्षिप्त एवेति भावः । अत एव 'अनुगादिनः' इति सूत्रप्रयोगश्व संगच्छते इति ज्ञेयम् । उपसर्गभिन्न एव सुपि णिनिरिति मतं शिष्ट प्रयोगविरुद्धं चेत्याह प्रसिद्धश्चोपसर्गेऽपि णिनिरिति । इत्यदावित्यत्रान्वयः । साधुकारिणीति । कृष्ग्रहणं सर्वधातूपलक्षणम् । साधुकारीत्यादिशब्दविषये तत्सिद्धयर्थ पिनेरुपसंख्यानमित्यर्थः । साधुशब्दे उपपदे धातोणिनिरिति यावत्, भाष्ये साधुकारी साधुदायीत्युदाहरणात् । ब्रह्मणि वद इति । णिनेरुपसंख्यानमिति शेषः । ननु 'सुप्यजाती-' इत्येव सिद्ध किमर्थमिदं वार्तिकमित्यत आह अताच्छील्यार्थमिति । साधुदायोति । आतो युक् । ब्रह्मवादीति । ब्रह्म वेदः । कर्तुर्युपमाने । कर्तरुपमानमिति । चेदित्यध्याहार्यम् । ननु 'सुप्यजाती-' भाष्ये-सुबिति वर्तमाने पुनः सुब्गहण किमर्थमनुपसर्ग इत्येवं तदभूद् इदं तु सुब्. मात्रे यथा स्यादुदासारिण्यः प्रत्यासारिण्य इति । अस्यायमाशय:-'सत्सूद्विष-' इति सूत्रे 'सुपि स्थः' इत्यतः सुपीत्यनुवर्तते, तच्च उपसर्गेतरपरम् , उपसर्गेऽपीति पृथगुक्तः । तदिहानुवर्तमानमर्थाधिकारादुपसर्गतरपरमेव स्यादिति निष्कर्षे तु मा भूदिह सुब्प्रहणम् । उपसर्गेऽपीत्यंशस्याप्यनुवृत्त्या निर्वाहात् । सर्वथापि सुब्मात्रे उपपदे णिनिः न त्वनुपसर्ग एवेति सिद्धान्तः। एतच्च शब्दकौस्तुभे स्पष्टम् । प्रसिद्धश्वेति । एवं च पाणिनीयानुसारिणीमिति प्रक्रियाकारप्रयोगोऽपि निर्बाध एव । अमरश्च प्रायुत-लिङ्गशेषविधिापी विशेषैर्यद्यबाधितः' इति दिक् । साधुकारिणीति । एतच्च ज्ञापकसिद्धम् । 'श्रा के:-' इति सूत्रे हि तच्छीलात्पृथक् साधुकारी गृह्यते तच्च ताच्छील्यं विनापि हिनौ सत्येव संगच्छते। ब्रह्मणि वद इति । इदं तु वाचनिकमेव । अताच्छील्यार्थमिति । एतच्च कैयटहरदत्तादिग्रन्थे स्पष्टम् । यत्तु भट्टवार्तिके ब्रह्मवादिशब्दस्य तच्छीलतद्धर्मतत्साधुकारिपरतया व्याख्यानं कृतम् । आ केरित्यधिकारे तु ब्रह्मणि वदेणिनिविधायकं वचनं नास्त्येवेति कथमिदं संगच्छेवेति चेत् । अत्राहुः-भट्टपादानामयमाशयः 'मुप्यजाती-' इति सूत्रेण
१ 'अनुगादिनष्ठक्' इति कचित् पाठः ।