SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [७३ इत्यचं बाधितुं सूत्रम् । २६८८ सुप्यजातो णिनित्ताच्छील्ये । (३-२-७८) भजात्यर्थ सुपि धातोणिनिः स्यात्ताच्छील्ये द्योत्से । उष्णभोजी । शीतभोजी । प्रजातो किम्-ब्राह्मणानामन्त्रयिता । ताच्छील्ये किम्-उष्णं भुङ्क्ते कदाचित् । इह वृत्तिकारणोपसर्गभित्र एव सुपि णिनिरिति व्याख्याय 'उत्पतिभ्या. माङि सर्तेरुपसंख्यानम्' इति पठितम् । हरदत्तमाधवादिभिश्च तदेवानुसृतम् । एतच भाष्यविरोधादुपेक्ष्यम् । प्रसिद्धश्वोपसर्गेऽपि णिनिः ‘स बभूवोपजीवि. सुखे । तत्पूर्वात् स्थाधातोः कप्रत्यये प्रातो लोपः । शंस्था इति । विपि रूपम् । सुखं स्थापयतीत्यर्थः । तिष्ठतिरन्त वितण्यर्थः । शंस्था इति भाष्यप्रयोगात पृषोदरादित्वाच्च 'घुमास्था-' इति ईत्त्वं न । केचित्तु क चेति चकाराद् विजेवानुकृष्यते इत्याहुः । ननु 'सुपि स्थः' इति कप्रत्यये 'विप् च' इति क्विपि च सिद्ध किमर्थमिदमित्यत आह शमिधातोरित्यचमिति । अन्यथा धातुग्रहणसामर्थ्यात् कृलो हेत्वादिषु टप्रत्ययमिव शम्पूर्वात् स्थाधातोः कं क्विपं च अच्प्रत्ययो बाधेतेति भावः । सुष्यजाती णिनिस्ताच्छील्ये । 'सुपि स्थः' इत्यतः सुपीत्यनुवृत्तौ पुनः सुन्प्रहणमुपसर्गेऽपि विधानार्थम् । अन्यथा 'पातोऽनुपसर्गे' इत्यतः अनुपसर्गे इत्यनु. वर्तेत । तद् ध्वनयन्नुदाहरति उष्णभोजीति । उष्णभोजनशील इत्यर्थः । उपसर्गभिन्न एवेति । अनुपसर्ग इत्यनुवर्तते । सुब्ग्रहणं तु 'सत्सूद्विष-' इति सूत्राद् उपसर्गेऽपीत्यनुवृत्तिनिवृत्तये इति भावः। उत्प्रतिभ्यामिति । उत्प्रतिभ्यां परे आडि प्रयुज्यमाने सति तत्पूर्वात्सर्तेणिनेरुपसंख्यानमिति तदर्थः । उदासारिणी प्रत्यासारिणीत्युदाहरणम् । भाष्याविरोधादिति । सुब्ग्रहणमुपसर्गग्रहणानुवृत्तिनिवृत्त्यबाधते तथा तिष्ठतः ककिपावपि बाधतेति 'स्थः क च' इत्यारम्भ इति भावः । नन्वेवं 'शमि धातो:-' इत्यस्यानन्तरं 'स्थः क च' इति सूत्र्यताम्, चकारेणाचि समुच्चिते सव दीर्पण शंस्था इति भविष्यति । एवं चोत्सर्गापवादयोः समानदेशतया संदर्भशुधिरपि लभ्यते, इत्वाभावार्थ च न यतनीयमिति महल्लाघवमिति चेत् । अत्राहुः-अशंस्था इत्यत्र 'अच्कावशक्ती' इति सूत्रेणोत्तरपदमन्तोदात्तं स्यात् । 'कृग्रहणे गतिकारकपूर्वस्यापि-' इति शंस्थाशब्दस्याजन्तत्वात् । क्विबन्तेन नञ्समासे तु नपूर्वपदप्रकृतिस्वरः सिध्यतीति । उष्णभोजीति । उष्णं भोक्तुं शीलमस्य । आमन्त्रयितेति । मत्रि गुप्तपरिभाषणे चुरादिरापर्वः, इदित्त्वान्नुम् , ताच्छील्यस्य विवक्षितत्वात्तुन् । अत एव 'न लोका-' इति निषेधाद् ब्राह्मणानित्यत्र कर्मणि षष्ठी न कृता । उप. सर्गभिन्न एवेति । 'सत्सूद्विष-' इति सूत्रे उपसर्गेऽपीत्युक्तत्वादुपसर्गमिन्नस्यैव सुपो लाभायास्मिन्सूत्रे पुनः सुग्रहणं कृतमिति भावः । भाष्यविरोधादिति । उक्तं च
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy