________________
७२
सिद्धान्तकौमुदी। [पूर्वकृदन्त( वा ४०७६)। पुरीतन् । संयत् । सुनत् । 'ऊ च गमादीनामिति वनग्यं लोपश्च' (वा ४०७३-७४) । अग्रेगूः । अग्रेभ्रूः। २६८७ स्थः क च । (३-२-७७) चारिकप् । शंस्थः । शंस्थाः । 'शमि धातोः-' (सू २९२८) प्राप्तौ वचनम् । अङ्गगदिति । अङ्गाख्यं देशं गच्छतीति विग्रहः । विपि मकारलोपे तुक् । एवं वजगत्कलिङ्गगदित्यादि । गमादीनामिति । कावनुनासिकलोप इति शेषः । पुरीतदिति । पुरिः हृदयाख्यः मासखण्डविशेषः । तं तनोति आच्छादयतीति विग्रहः । हृदयकमलाच्छादको मेदोविशेषः। 'पुरीतता हि हृदयमाच्छाद्यते' इति श्रुतिरिति कर्किभाष्यम् । तनेः क्विपि नकारलोपे तुक् । 'नहितिवृषि-' इति पूर्वपदस्य दीर्घः । संयदिति । यमः क्वि । मलोपे तुक् । सुनदिति । नमः क्विपि मलोपे तुक् । ऊ चेति । गमादीनामुपधाया ऊभावश्चेति वक्तव्यमित्यर्थः । लोपश्चेति। चकारादनुनासिकलोपः समुच्चीयते इति भावः । अग्रेगूरिति । अग्रे गच्छतीति विग्रहो गमेरकारस्य ऊभावो मलोपश्च 'तत्पुरुषे कृति बहुलम्' इत्यलुक् । अग्रेभूरिति । भ्रमेरकारस्य ऊभावः, मलोपश्च । स्थः क च । केल्यविभक्तिकम् । स्थ इति पञ्चम्यन्तम् । चात् किबिति । उपसर्गे अनुपसर्गे च सुबन्ते उपपदे स्थाधातोः कप्रत्ययः स्यात् । किप चेति फलितम् । शस्थ इति । शमित्यव्ययं क्लनिर्देशादिति दिक् । सुम्वाविति । 'श्रोः सुपि' इति यण। स्थः क च । शंस्था इति । क्विपि लुप्ते 'घुमास्था-' इति ईत्वं न स्थानिवद्भावस्य । अनल्विधादिति निषेधात् । प्रत्ययलक्षणसूत्रं तु प्रत्ययस्यासाधारणरूपं यत्राश्रीयते तत्रैवेति नियमार्थमिति निष्कर्षात् । यत्तु कैयटनोक्तम्-ईत्वमवकारादाविति वचनाद्भाष्यकारी. योदाहरणप्रामाण्याद्वा प्रत्ययलक्षणेन ईत्वं नेति । तद् अतृणेडित्यादिसिद्धये प्रत्ययप्राधान्ये अल्विध्यर्थं प्रत्ययलक्षणसूत्रमिति पक्षमभिप्रेत्य तत्राप्यवकारादाविति वचनखीकारे सुधीवति न सिध्यदित्यपरितोषेण पक्षान्तरस्वीकार इति बोध्यम् । ननु नियमार्थमिति निष्कर्षपक्षे तु प्रागुक्तमित्रशीरित्यत्र कथमित्वं भवेदिति चेत् । अत्राहः-शासः इदिति । ततः अकि नियमार्थमिदम् । अजादौ चेदित्वं स्यादब्येव नान्यत्रेति हलग्रहणं मास्त्विति ज्ञेयमिति । न चैवमपि हलादौ पिति सार्वधातुके तृणह इमो विधानादतृणेडित्यादि तु नियमपक्षे न सिध्यतीत्यल्विध्यर्थमिति पक्षोऽपि स्वीकार्य इति वाच्यम्, 'उतो वृद्धिः-' इति सूत्राद्धल्पहणमनुवर्त्य तृणहानीत्यत्रानिष्टवारणाय 'नाभ्यस्तस्याचि-' इति सूत्रादचि नेत्यनुवर्य व्याख्यानात् । एतच्च रुधादिगण एव व्याख्यातम् । स्यादेतत्-'सुपि स्थः' 'विप् च' इति सूत्राभ्यां कक्विपौ सिद्धौ तबाह शमीत्यादि । धातुग्रहणसामर्थ्याद्धि धातुमात्राद्भवनच् प्रत्ययो हेत्वादिषु कृअष्टं यथा