________________
७० ]
सिद्धान्तकौमुदी। [पूर्वकृदन्तसत् । पर्णध्वत् । वाहभ्रट । २६८४ अन्तः। (८.४-२०) पदान्तस्यानितेनस्य णत्वं स्यादुपसर्गस्थानिमित्तात्परश्चेत् । हे प्राण । 'शास इत्-' (सू २४८६ ) इतीखम् । मित्राणि शास्ति मित्रशीः । 'श्राशासः को उपधाया इत्त्वं वाध्यम् । (वा ४०७०) प्राशीः । इत्वोवे । गीः । पूः। २६८५ इस्मन्त्रनन्वनेनैव सिद्धे 'सत्सूद्विष-' इति सूत्रे व्यर्थमित्यत आह सत्सूद्विषेति । 'सत्सूद्विष-' इति सूत्रं तु 'विप् च' इत्यस्येव प्रपञ्च इत्यर्थः । उखादिति । उखायाः स्रसत इति विग्रहः । स्रसेः विप् , 'अनिदिताम्-' इति नलोपः, 'वस्त्रंसु-' इति दत्वम् । एवं पर्णव्वत् । पर्णाद् ध्वंसत इति विग्रहः। वाहभ्रडिति । वाहाद् भ्रश्यति इति विग्रहः। व्रश्चादिना षः। अन्तः । 'अनितेः' इति सूत्रमनुवर्तते, 'रषाभ्यां नो णः' इति च । अन्त इति षष्ठ्यर्थे प्रथमा। पदस्यान्तो विवक्षितः । उपसर्गादसमासेऽपि' इत्यत उपसर्गादित्यनुवर्तते । तदाह पदान्तस्येत्यादिना । हे प्राणिति । प्रपूर्वादनेः क्विबन्तात् संबोधनकवचनस्य हल्ङयादिलोपः, नस्य णः । नलोपस्तु न, 'न सिंबुद्धयोः' इति निषेधात् । मित्रशीरिति । मित्राणि शास्तीति विग्रहः । शासेः विप् 'शास इदद्दलोः' इत्युपधाया इत्त्वम् , 'र्वोरुपधायाः-' इति दीर्घः । मित्रशिषावित्यादौ अपदान्तत्वान्न दीर्घः । प्राशासःक्वाविति । 'आठः शासु इच्छायाम्' इत्यात्मनेपदी । तस्य 'शास इदहलोः' इति इत्त्वं तु न भवति, अत्र परस्मैपदिन एव शासेग्रहणात् । अन्यथा श्राशास्ते इत्यादावपि इत्त्वापत्तेः । अत आशासः क्वाविति विधिः । इत्त्वोत्त्वे इति । गृधातोः क्विपि, ऋत इत्त्वे, रपरत्वे, सोर्लोपे, 'रुपधाया:-' इति दीर्घ गीरिति रूपम् । पधातोः विपि, 'उदोष्ठ्यपूर्वस्य' इति ऋतः उत्त्वे, रपरत्वे, सुलोपे, उपधादीर्घ पू: इति रूपमित्यर्थः । इस्म. मपि दृश्यते' इति पूर्वपदान्तस्य दीर्ध इति हरदत्तः। अन्तः। अनितेरिति वर्तते अन्तश्चोत्तरपदापेक्षो गृह्यते नानितेरपेक्षयाऽव्यभिचारादत आह पदान्तस्येति । है प्राणिति । अन प्राणने विप् 'अनुनासिकस्य-' इति दीर्घः , 'न विसंबुद्ध्योः' इति नलोपनिषेधः । अन्यत्र तु नलोपेन भाव्यमिति संबुद्ध्यन्तमुदाहृतम् । मित्रशीरिति । लुप्तेऽपि किप्प्रत्यये प्रत्ययलक्षणन्यायेन हलादिकित्प्रत्ययपरत्वमस्ति, वर्णाश्रये नास्ति प्रत्ययलक्षणमित्येतद्वर्णप्राधान्य एवेत्युक्तत्वादिति भावः। आशास इति । शासु अनुशिष्टौ, आङः शासु इच्छायाम् , आत्मनेपदे 'शास इत्-' इत्यादिना सिद्धे कावेव उपधाया इत्वमिति नियमार्थमिदम् । तेन आशास्ते इति सिद्धमित्येके । अन्ये तु विध्यर्थमेवेदं न नियमार्थ प्राप्त्यभावात् । न च 'शास इदङ्हलोः' इति इत्वस्य प्राप्तिरस्तीति वाच्यम् , तत्राङ्साहचर्यात्परस्मैपदिन एव शासेर्ग्रहणात् । यद्यपि 'सर्ति