SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६६] बालमनोरमा-तत्त्वबोधिनीसहिता। [६७ स्पृक् । कर्मणीति निवृत्तम् । मन्त्रेण स्पृशतीति मन्त्रस्पृक् । 'ऋविग्दधक्स्त्र. ग्दिगुष्णिगन्चुयुजिकच्चां च' (सू ३७३ ) व्याख्यातम् । 'त्यदादिषु दृशोऽना. लोचने कञ्च' (सू ४२६) । 'समानान्ययोश्चेति वाच्यम्' (वा २०२६) सदृक् , सदृशः । न्याहा , अन्यादृशः । 'क्सोऽपि वाच्यः' (वा २०३०) । तादृक्षः । सदृक्षः । अन्यादृक्षः । २६७५ सत्सूद्विषद्रुहदुहयुजविदभिदच्छिभविता । स्पृशोऽनुदके किन्निति । व्याख्यातं हलन्ताधिकारे । निवृत्तमिति । अत्र व्याख्यानमेव शरणम् । समानान्ययोश्चेति । अनयोरुपपदयोः दृशः क्विन्कआवियर्थः। सहक, सदृश इति । समानो दृश्यते इति न विप्रहः, कर्तर्येव विविधानात् । किन्तु कर्मकर्तरि क्विन्कौ । समानः पश्यतीति विप्रहः । समानत्वेन ज्ञानविषयो भवतीत्यर्थ इति भाष्ये स्पष्टम् । 'दृग्दशवतुषु' इति समानस्य सभाव. विकल्पः । तत्र 'विसषोदरे' इत्यतो विभाषानुवृत्तेः समानदृक् सदृक् समानदृशः सदृश इति भाष्याच अन्यादगिति । 'पा सर्वनाम्नः' इत्यात्वम् । क्सोऽपीति । त्यदादिषु समानान्ययश्च दृशेः क्सोऽपि वाच्य इत्यर्थः । सत्सूद्विष । सद्, सू, द्विष, दुह, दुह, युज, विद, भिद, छिद, जि, नी, राज् एषा द्वन्द्वात्पञ्चम्यर्थे षष्ठी। अनुपसर्गे इत्यस्य निवृत्त्यैव सिद्धे उपसर्गेऽपीति वचनम् 'अन्यत्र सुग्रहणे उपसर्गग्रहणं नेति' ज्ञापनारम् । तेन 'वदः सुपि क्यप च' इति विधिरुपसर्गे न भवतीति वन्धसामर्थ्यादस्यापि ग्रहणमस्त्विति किमिकारेणेति चिन्त्यमेतत् । न चेह लाघवाभावादिकारोस्तु चकार एव मास्त्विति शङ्कयम् , एकमात्रो ह्रस्वो व्यञ्जनं त्वर्धमात्रकमिति सर्वसंमतत्वात् यत्तु हरदत्तेनोक्तं षत्वणत्वयोः सामर्थ्यादस्य ग्रहणमिति तदापाततः स्नुजपेक्षया 'गुजुक्ती प्रत्युत प्रक्रियालाघवेन षत्वणत्वयोः करणस्योचिततया सामर्थ्यायोगादिति दिक् । निवृत्तमिति । ननु स्पृशः सकर्मकत्वात्कर्मण्युपपद इत्येव प्राप्येत इति नेत्। अत्र प्राञ्चः-पूर्वसूत्रात्कर्तरि इत्यनुवर्तते सा चानुवृत्तिः 'कर्तरि कृत्' इत्यनेनै । कर्तरि क्विनः सिद्धत्वाद्यर्था सती कर्तृप्रचयार्था, कर्मण्युपपदे एकः कर्ता करणादौ चापर इत्येवं कर्तृप्रचयस्तथा च सुबन्ते उपपदे इति फलितं भवतीति मन्त्रस्पृगित्यापि सिद्धमिति । वस्तुतस्तु कर्तृप्रहणं व्यर्थमिति पूर्वसूत्र एवोक्तम् । न चेह कर्तृप्रचयार्थ तदावश्यकमिति शङ्कयम् , मन्त्रस्पृगित्यादेः किपापि सिद्धेः । न च विपि कुत्वं न स्यादिति वाच्यम् । किन्प्रत्ययो यस्मादिति बहुव्रीहिबलादेव कुत्वसंभवादिति दिक् । सगिति । तमिवमं पश्यन्ति जनाः स इवायं पश्यति ज्ञानविषयो भवतीति व्युत्पत्त्या कर्मकर्तरि प्रत्ययो रूढ्यर्थानुगुणत्वात् । सत्सूद्विष । षद्ल विशरणादौ । सू इति द्विषा साहचर्यात्सूतेरादादिकस्य ग्रहणं न
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy