SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ६६ ] सिद्धान्तकौमुदी। [पूर्वकृदन्तअच्वाविस्युत्तरार्थम् । २६७४ कर्तरि भुवः खिष्णुच्खुको। (३-२-५७) प्रात्यादिषु व्यर्थेष्वन्यन्तेषु भवतेरेती स्तः। अनाढयः प्राढयो भवतीति आढयम्भविष्णुः पाढ्यम्भावुकः । 'स्पृशोऽनुदके क्विन्' (सू ४३२)। घृतषेधः ख्युनभावपक्षे त्युडभावार्थ इति स्थितम् । भाष्यमते त्विति । भाष्ये 'ख्युनि विप्रतिषेधानर्थक्यम् । ल्युटख्युनोरविशेषात् । मुमर्थमिति चेन्न, अव्ययत्वात् , इत्यादिसंदर्भेण अविग्रहणं ख्युन्विधौ प्रत्याख्याय 'अच्वौ' इत्युत्तरार्थमित्युक्तम् । तन्मते तु व्यन्ते उपपदे ख्युना मुक्ते ल्युट् स्यादेवेत्यर्थः । कर्तरि भुवः । खिष्णुचि खचावितौ । खुकनि खनाविती । प्राढ्यम्भविष्णुरिति । भनाढ्य अान्यो भवतीति विग्रहः । आढ्यम्भावुक इति । नित्त्वाद्वद्धिः । करणग्रहणानुवृत्तिनिवत्तये कर्तृप्रहणम् । खिष्णुचि इकारस्तु व्यर्थ एव इटा सिद्धेः । अच्वौ किम् ? आढ्योल्युट्युनोस्तुल्यम् । न च ख्युनि मुम्हखौ स्यातामिति वाच्यम् , अनव्ययस्येति पर्यु. दासात् । 'ऊर्यादिच्चिडाचश्च' इति निपातसंज्ञकत्वेन च्यन्तस्य श्रव्ययत्वात् । न च ख्युनि सति 'उपपदमतिङ्' इति नित्यसमासो लभ्यते, ल्युटि तु नेति वाच्यम् , ल्युट्यपि गतिसमासस्य संभवात् । तस्यापि नित्यरामासत्वात् । न च स्त्रीप्रत्यये विशेषः, ल्युटि 'टिड्ढा-' इति सूत्रेण ख्युनि तत्रत्येन ख्युन उपसंख्यानेन च डीपस्तुल्यत्वात् । नापि स्वरे विशेषः, ल्युटि लिस्वरेण ख्युनि नित्स्वरेण कृन उदात्तत्वाविशेषात् । न चोत्तरार्थमच्चावित्युक्तमिति वाच्यम् , केवलोत्तरार्थत्वे हि तत्रैव ब्रूयात् । तदेतदुक्तम् इह ल्युडपि नेति । भाष्यमते त्विति । भाष्यवार्तिकस्वरसेन व्यडिष्ट इति केवलोत्तरार्थत्वं लभ्यते । अतस्तद्विरोधाद् इत्तिकन्मतमयुक्तमिति कैयटः । कर्तरि भुवः । अच्च्यन्तेष्विति । अच्वावित्यनुवर्तते । अन्यथा आन्योभविष्णुः आयीभावुक इति स्यादिति भावः । कर्तृप्रहणं करणानुवृत्तिभ्रमनिरासार्थमुत्तरार्थ चेति प्राञ्चः। वस्ततस्तु व्यर्थमेव अस्वरितत्वादेवाननुवृत्तिसिद्धेः, उत्तरत्राप्युपयोगो नेति स्पष्टीकरिष्यमाणत्वाच्च । खकारो मुमर्थः । चकारः 'चितः' इत्यन्तोदात्तार्थः । अकारो वृद्ध्यर्थः । स्यादेतत्-खिष्णुच इकारो मास्तु खष्णुरित्येवोच्यताम् , एवं चकारोऽपि न कर्तव्यः प्रत्ययस्वरेणैवाभिमतसिद्धः, इकारादित्वसिद्धये इडागमे कृतेऽपि 'भागमा अनुदात्ताः' इति तस्यानुदात्तत्वात् । न च ‘कृत्योकेष्णुच्चार्वादयश्च' इति स्वरसूत्रे अस्य ग्रहणं न स्यात् । चकारानुबन्धाभावादिकारस्य लाक्षणिकत्वात्षत्वणत्वयोरसिद्धत्वेनेष्णु इति रूपभावाच्चेति वाच्यम् । कृतेऽपि इकारे 'तदनुबन्धकप्रहणे नातदनुबन्धकस्य' इति परिभाषया अलंकृआदीष्णुच एव ग्रहणं स्यान्न त्वेतस्य । इकारोच्चारणसामर्थ्यादस्या ग्रहणमिति चेद्धन्तैवं खष्णुजयमस्तु तत्रेटि कृते चकारानु
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy