________________
प्रकरणम् ६६] बालमनोरमा-तत्त्वबोधिनीसाहता। [६३ पतितं गच्छतीति पन्नगः । पञ्चमिति पद्यतेः कान्तं क्रियाविशेषणम् । 'उरसो लोपश्च' ( वा २०१५) । उरसा गच्छती युरगः । 'सुदुरोरधिकरणे' (वा २०१६) । सुखेन गच्छत्यत्र सुगः । दुर्गः । 'अन्यत्रापि दृश्यत इति वक्तव्यम्' (वा २०१८ ) । ग्रामगः । 'डे च विहायसो विहादेशो वक्तव्यः' (वा २०१२)। विहगः । २६६६ आशिषि हनः । (३-२-४६) शत्रु वध्याच्छत्रुहः ।। आशिषि किम्-शत्रुघातः । 'दारावाहनोऽणन्तस्य च टः संज्ञायाम्' (वा २०१६ )। दारुशब्दे उपपदे श्रापूर्वाद्धन्तेरण टकारश्चान्तादेशो वक्तव्य इत्यर्थः । दाघाटः । 'चारी वा' (वा २०२०) चार्वाघाटा, चार्वाधातः । 'कर्मणि समि च' (वा २.२१)। कर्मण्युपपदे संपूर्वाद्धन्तेरुनं वेत्यर्थः । वर्णान्संहन्तीति वर्णसंघाटः । पदसंघाटः । वर्णसंघातः। पदसंघातः । २६६७ अपे क्लेशतमसोः। (३-२-५०) अपपूर्वाद्धन्तेर्डः स्यात् । अनाशीरर्थमिदम् । व्यक्तम् । सर्वत्रपन्नयोरिति । सर्वत्रशब्दे पन्नशब्दे चोपपदे गमेर्डस्योपसंख्यानमित्यर्थः । उरस इति। उरसि उपपदे गमेर्ड उरश्शब्दान्त्यस्य लोपश्चेति वक्तव्यमित्यर्थः। सुदुरोरिति । सु, दुर् अनयोरुपपदयोर्गमेर्डः स्याद् अधिकरणे वाच्ये इत्यर्थः। अन्यत्रापि दृश्यत इति । अन्येष्वप्युपपदेषु अन्येभ्योऽपि धातुभ्यो डो दृश्यते इत्यर्थः । अनेनैव सिद्ध 'सर्वत्रपन्नयोः' इत्यादि प्रपञ्चार्थमेव । एवं च 'सप्तम्यां जनेर्डः' इत्यत्रापि 'अन्येष्वपि दृश्यते' इति प्रपञ्चार्थमेव । डे चेति । विहायसो विह इत्युक्तस्य खज्विषयत्वादिदं वचनम् । विहग इति । खचि तु मुमि विहङ्गम इति रूपम् । आशिषि हनः। कर्मण्युपपदे हन्तेर्ड: स्याद् आशिषि गम्यायामित्यर्थः। शत्रुघात इति । आशीरभावाड्डाभावे अण् । 'हनस्त-' इति तत्वम् । दारावाहन इति । वार्तिकमिदम् । दारी आहनः अण अन्तस्येति च्छेदः । श्ररासंनियोगेन टत्वविधानार्थमिदम् । चारौ वेति । वार्तिकमिदम् । चारुशब्दे उपपदे श्रापद्धिन्तेः अण, अन्तस्य टः वा स्यादित्यर्थः। कर्मणि समि चेति । वार्तिकमिदम् । उक्तं वेति । अण् अन्तस्य ट इत्यर्थः । चारावित्यस्यानुवृत्तिनिवृत्तये कर्मणीत्युक्तिः। अपे क्लेशतमसोः। 'आशिषि हनः' इत्येव सिद्धे किमर्थमिदमित्यत आह अनाशीरर्थमिति । सुदुरोरिति । कर्मणि तु 'ईषद्दुःसुषु-' इति खलेव । सुखेन गम्यत इति सुगमः पन्थाः । दुर्गमः । दाराविति । शब्दापेक्षया पुल्लिङ्गता, तदाह दारुशब्दे इति । 'काष्ठं दाविन्धनं त्वेधः' इत्यमरः। टविधानार्थमिदम् । अण तु 'कर्मण्यण' इत्येव सिद्धः। 'अलोऽन्त्यस्य' इत्येव सिद्धेऽन्तग्रहणं स्पष्टार्थम् । अन्यथा हि टप्रत्ययः संभा