SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ६२] सिद्धान्तकौमुदी। [पूर्वकृदन्तप्रोदनः । प्राशितस्य भवनमाशितम्भवः । २६६३ संज्ञायां भृतवृजिधारि. सहितपिदमः । (३-२-४६) विश्वं बिभर्तीति विश्वम्भरः । विश्वम्भरा। 'रथन्तरं साम । इह रथेन तरतीति व्युत्पत्तिमात्रम्, न स्ववयवार्थानुगमः । पतिवरा कन्या । शत्रुञ्जयो हस्ती। युगन्धरः पर्वतः। शत्रुसहः । शत्रुन्तपः । अरिन्दमः। दमिः शमनायाम् , तेन सकर्मक इत्युक्रम् । मतान्तरे तु अन्तर्भावितण्यर्थोऽत्र दमिः । २६६४ गमश्च । (३-२-४७) सुतङ्गमः २६३५ अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः। (३-२-४८) संज्ञायामिति निवृ. त्तम् । एषु गमेर्डः स्यात् । डिस्वसामर्थ्यादभस्यापि टेर्लोपः। अन्तं गच्छतीस्यन्तग इत्यादि । 'सर्वत्रपन्नयोरुपसंख्यानम्' (वा २०१४)। सर्वत्रगः। पचं आशितस्य भवनमिति । संज्ञायाम् । खजिति शेषः भृ, तु, वृ, जि, धारि, सहि, तपि, दमि एषामष्टानां समाहारद्वन्द्वात्पञ्चमी। विश्वम्भर इति । विष्णोरियं संज्ञा । विश्वम्भरेति । पृथिव्याः संज्ञा इयम् । रथन्तरमिति । तृधातो खच् । रथेन तरितृत्वस्य सामविशेषे असंभवादाह इहेति । वृधातोरुदाहरति पतिवरेति । शत्रुञ्जय इति । जिधातोः खच् । धारीति ण्यन्तग्रहणम् , तस्योदाहरति युगन्धर इति । युगं धारयतीति विग्रहः । 'खचि ह्रस्वः' इत्युपधाह्रस्वः, णिलोपः। शसह इति । शत्रून् सहते इति विग्रहः । ह्रस्वादि पूर्ववत् । एवमग्रेऽपि । शत्रुन्तप इति । शत्रून् तपतीति विग्रहः । अरिन्दम इति । अरिषु निग्रहविषये शमयती यर्थः। दमिः शमनायामिति । 'दमु उपशमे' इति धातुपाठे उपशमशब्दे शमर्यन्ताद् घञ् । तथा च दाम्यतीत्यस्य उपशमयतीत्यर्थश्रयणात् सकर्मकत्वमिति माधवादिमते सकर्मकोऽयमित्यर्थः । मतान्तरे विति। 'दमु उपशमे' इत्युपशमार्थस्य दमेरकर्भकत्वमिति हरदत्तादिभिरुक्तमित्यर्थः । गमश्च । संज्ञायां खजिति शेषः । अन्तात्यन्त । इत्यादि भवनमित्युदाहरतो जयादित्यस्यापि समतमेवेति दिक् । संज्ञायां भृत् । 'विश्वंभरः कैटभजित्' । 'रसा विश्वंभरा स्थिरा' इत्यमरः । व्युत्पत्तिमात्रमिति । तत्फलं तु स्वरावरही 'रथंतरमाजभारा वसिष्ठः' इत्यत्र हि रथमित्यवगृह्णन्ति । कृदुत्तरपदप्रकृ. तिस्वरेणान्तोदात्तत्वं चाधीयते । अखण्डत्वे त्ववग्रहो न स्यानविषयस्येत्यायुदात्तश्च_ स्यात् । इत्युक्तमिति । माधवाद्यनुरोधेनेत्यर्थः । मतान्तरे त्विति । हरदत्तादिमत इत्यर्थः । चित्तव्यापारोपरमः शमः, इन्द्रियव्यापारोपरमस्तु दम इत्यादि वेदान्तप्रन्थाश्चेहानुकूलाः । संज्ञायां किम् , कुटुम्बं बिभर्तीति कुटुम्बंभारः । गमश्च । पूर्वसूत्र एव गमि!तः उत्तरसूत्रे गमेरेवानुत्तिर्यथा स्यात् । भृतृप्रभृतीनां माभूदिति ।
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy