________________
६४०
सिद्धान्तकौमुदी। उपान्तमध्ये खरितं धृतं च कनिष्ठिकायामनुदात्तमेव ॥४३॥ उदात्तं प्रदेशिनी विद्यात्प्रचयं मध्यतोगुलिम् । निहतं तु कनिष्ठिक्यां स्वरितोपकनिष्ठिकाम् ॥४४॥ अन्तोदात्तमायुदात्तमुदात्तमनुदात्तं नीचस्वरितम् । मध्योदात्तं खरितं यदात्तं ज्युदात्तमिति नवपदशय्या ॥४५॥ अग्निः सोमः प्रवो वीर्य हविषां स्वबृहस्पतिरिन्द्राबृहस्पती। अग्निरित्यन्तोदात्तं सोम इत्याधुदात्तं प्रेत्युदात्तं व इत्यनुदात्तं
वीर्य नीचस्वरितम् ॥ ४६॥ हविषां मध्योदात्तं स्वरिति स्वरितम् । बृहस्पतिरिति धदात्तमिन्द्राबृहस्पती इति ज्युदात्तम् ॥४७॥ अनुदात्तो हृदि शेयो मूर्युदात्त उदाहृतः। स्वरितः कर्णमूलीयः सर्वास्ये प्रचयः स्मृतः ।। ४८॥ ६॥ चाषस्तु वदते मात्रां द्विमानं त्वेव वायसः । शिखी रौति त्रिमात्रं तु नकुलस्त्वर्धमात्रकम् ॥ ४६॥ कुतीर्थादागतं दग्धमपवर्ण च भक्षितम् । न तस्य पाठे मोक्षोऽस्ति पापाहेरिव किल्बिषात् ॥ ५० ॥ सुतीर्थादागतं व्यक्तं स्वानाय्यं सुव्यवस्थितम् । सुस्वरेण सुवक्त्रेण प्रयुक्तं ब्रह्म राजते ॥ ५१ ॥ मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात्५२ अवक्षरं हनायुष्यं विस्वरं व्याधिपीडितम् ।। अक्षताऽशस्त्ररूपण वज्रं पतति मस्तके ।। ५३ ॥ हस्तहीनं तु योऽधीते स्वरवर्णविवर्जितम्। ऋग्यजुःसामभिर्दग्धो वियोनिमधिगच्छति ॥ ५४ ।। हस्तेन वेदं योऽधीते स्वरवर्णार्थसंयुतम् । ऋग्यजुःसामभिः पूतो ब्रह्मलोके महीयते ॥५५॥ १०॥ शंकरः शांकरी प्रादादाक्षीपुत्राय धीमते। वाङमयेभ्यः समाहृत्य देवीं वाचमिति स्थितिः ॥ ५६ ।। येनाक्षरसमानायमधिगम्य महेश्वरात् । कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ॥ ५७ ।।