________________
पाणिनीयशिक्षा । हृदये चैकमात्रस्त्वर्धमात्रस्तु मूर्धनि । नासिकायां तथाधं च रङ्गस्यैवं द्विमात्रता ॥ २८॥ हृदयादुत्करे तिष्ठन्कांस्येन समनुस्खरन् । मार्दवं च द्विमानं च जघन्वाँ इति निदर्शनम् ॥ २६ ॥ मध्ये तु कम्पयेत्कम्पमुभौ पाश्वौं समौ भवेत् । सरङ्गं कम्पयेत्कम्पं रथीवेति निदर्शनम् ॥ ३०॥ एवं वर्णाः प्रयोकव्या नाव्यक्ता न च पीडिताः। सम्यग्वर्णप्रयोगेण ब्रह्मलोके महीयते ॥ ३१ ॥६॥ गीती शीघ्री शिरःकम्पी तथा लिखितपाठकः। अनर्थज्ञोऽल्पकण्ठश्च षडेते पाठकाधमाः ॥ ३२ ॥ माधुर्यमक्षरव्यक्तिः पदच्छेदस्तु सुस्वरः । धैर्य लयसमर्थं च षडेते पाठका गुणाः ॥ ३३ ॥ शङ्कितं भीतमुघृष्टमव्यक्तमनुनासिकम् । काकखरं शिरसि गतं तथा स्थानविवर्जितम् ॥ ३४ ॥ उपांशु दष्टं त्वरितं निरस्तं विलम्बितं गद्गदितं प्रगीतम् । निष्पीडितं ग्रस्तपदाक्षरं च वदेन दीनं न तु सानुनास्यम् ॥३५॥ प्रातः पठेन्नित्यमुरःस्थितेन स्वरेण शार्दूलरुतोपमेन । मध्यंदिने कण्ठगतेन चैव चक्रावसंकूजितसन्निभेन ॥ ३६॥ तारं तु विद्यात्सवनं तृतीयं शिरोगतं तच्च सदा प्रयोज्यम् । मयूरहंसान्यमृतवराणां तुल्येन नादेन शिरःस्थितेन ॥३७॥७॥ प्रचोऽस्पृष्टा यणस्त्वीषन्नेमस्पृष्टाः शलः स्मृताः। शेषाः स्पृष्टा हलः प्रोक्ता निबोधानुप्रदानतः॥ ३८ ॥ अमोनुनासिका नहो नादिनो हझषः स्मृताः। ईषन्नादा यणो जश्च श्वासिनस्तु खफादयः॥३६॥ ईषच्छ्वासांश्चरो विद्याद्गोर्धामैतत्प्रचक्षते । दाक्षीपुत्रः पाणिनिना येनेदं व्यापितं भुवि ॥ ४०॥ छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते । ज्योतिषामयनं चतुर्निरुक्तं श्रोत्रमुच्यते ॥४१॥ शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् । तस्मात्साङ्गमधीत्येव ब्रह्मलोके महीयते ॥४२॥८॥ उदातमाख्याति वृषोऽगुलीनां प्रदेशिनीमूलनिविष्टमूर्धा ।