________________
६३८ ]
सिद्धान्तकौमुदी। खरितप्रभवा होते षड्जमध्यमपञ्चमाः ॥१२॥ अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिह्वामूलं च दन्ताश्च नासिकोष्टौ च तालु च ।। १३ ।।
ओभावश्च विवृत्तिश्च शषसा रेफ एव च। जिह्वामूलमुपध्मा च गतिरष्टविधोष्मणः ॥ १४॥ यद्योभावप्रसंधानमुकारादिपरं पदम् । स्वरान्तं तादृशं विद्याद्यदन्यध्यक्तमूष्मणः ॥ १५॥३॥ हकारं पञ्चमैर्युक्तमन्तःस्थाभिश्च संयुतम् ।
औरस्यं तं विजानीयात्कण्ठ्यमाहुरसंयुतम् ॥ १६ ॥ कण्ठ्यावहाविचुयशास्तालव्या ओष्ठजावुपू। स्युर्मूर्धन्या ऋटुरषा दन्त्या लतुलसाः स्मृताः॥१७॥ जिह्वामूले तु कु. प्रोक्तो दन्त्योष्टयो वः स्मृतो बुधैः । एऐ तु कण्ठयतालव्यौ ओौ कण्ठोष्ठजौ स्मृतौ ॥ १८ ।। अर्धमात्रा तु कण्ठया स्यादेकारैकारयोर्भवेत् । प्रोकारौकारयोर्मात्रा तयोर्विवृतसंवृतम् ।।१६।। संवृतं मात्रिकं क्षेयं विवृतं तु द्विमात्रिकम् । घोषा वा संवृताः सर्वे अघोषा विवृताः स्मृता ॥२०॥४॥ स्वराणमूष्मणां चैव विवृतं करणं स्मृतम् । तेभ्योऽपि विवृतावेडी ताभ्यामैचौ तथैव च ॥ २१ ॥ अनुस्वारयमानां च नासिकास्थानमुच्यते । अयोगवाहा विशेया आश्रयस्थानभागिनः॥ २२॥ अलाबुषीणानि?षो दन्त्यमूल्यवराननु । अनुखारस्तु कर्तव्यो नित्यं होः शषसेषु च ।। २३ ॥ अनुस्वारे विवृत्यां तु विरामे चाक्षरद्वये । द्विरोष्ठयौ तु विगृतीयाद्यत्रोकारवकारयोः॥२४॥ व्याघ्री यथा हरेत्पुत्रान्दंष्ट्राभ्यां न च पीडयेत् । भीता पतनभेदाभ्यां तद्वद्वर्णान्प्रयोजयेत् ॥ २५ ॥५॥ यथा सौराष्ट्रिका नारी त इत्यभिभाषते। एवं रङ्गाः प्रयोक्तव्याः खे अराँ इव खेदया ॥२६॥ रङ्गवर्ण प्रयुञ्जीरन्नो प्रसेत्पूर्वमक्षरम् । दीर्घस्वरं प्रयुञ्जीयात्पश्चान्नासिक्यमाचरेत् ॥ २७ ॥