________________
श्रीः।
सिद्धान्तकौमुदीपरिशिष्टानि ।
अथ पाणिनीयशिक्षा १
अथ शिक्षा प्रवक्ष्यामि पाणिनीयं मतं यथा । शास्त्रानुपूर्व तद्विद्याद्यथोक्तं लोकवेदयोः॥१॥ प्रसिद्धमपि शब्दार्थमविज्ञातमबुद्धिभिः। पुनर्व्यक्तीकरिष्यामि वाच उच्चारणे विधिम् ॥२॥ त्रिषष्टिश्चतुःषष्टि वर्णाः शम्भुमते मताः । प्राकृते संस्कृते चापि स्वयं प्रोक्ताः वयंभुवा ॥३॥ स्वरा विंशतिरेकश्च स्पर्शानां पञ्चविंशतिः। यादयश्च स्मृती ह्यष्टी चत्वारश्च यमाः स्मृताः॥४॥ अनुस्वारो विसर्गश्व क पौ चापि पराश्रितो। दुःस्पृष्टश्चेति विशेयो ऋकारः प्लुत एव च ॥५॥१॥ आत्मा बुद्धया समेत्यार्थान्मनो युक्त विवक्षया । मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ॥ ६॥ मारुतस्तूरसि चरन्मन्द्रं जनयति स्वरम् । प्रातःसवनयोगं तं छन्दो गायत्रमाश्रितम् ॥७॥ कण्ठे माध्यन्दिनयुगं मध्यमं त्रैष्टुभानुगम् । तारं तार्तीयसवनं शीर्षण्यं जागतानुगम् ॥८॥ सोदीर्णो मूय॑भिहतो वक्त्रमापद्य मारुतः। वर्णाअनयते तेषां विभागः पञ्चधा स्मृतः॥६॥ स्वरतः कालतः स्थानात्प्रयत्नानुप्रदानतः। इति वर्णविदः प्राहुनिपुणं तन्निबोधत ॥ १० ॥२॥ उदात्तश्चानुदात्तश्च स्वरितश्च स्वरात्रयः। ह्रखो दीर्घः प्लुत इति कालतो नियमा अचि ॥११॥ उदात्ते निषादगान्धारावनुदात्त ऋषभधैवतौ ।