SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तकौमुदी। कुशा वानस्पत्याः स्थ ता मा पातेति श्रुतिः । 'मतः कृकमि-' (१९०) इति सूत्रे कुशाकर्यान्विति प्रयोगश्च । ग्याससूत्रे च । हानी पायनशब्दे शेषत्वास्कुशाग्छन्द इति । तत्र शारीरकभाष्येप्येवम् । एवं च श्रुतिसूत्रमाज्याणामेकवा. क्यस्वे स्थिते मानन्द इत्यामलेषादिपरो भामतीग्रन्थः प्रौढिवादमात्रपर इति विभावनीयं बहुश्रुतैः । १८२ गृहमेहदेहपट्टपटहाष्टापदाम्बुदककुदाश्च । इति पुंनपुंसकाधिकारः। १८३ अविशिष्टलिङ्गम् । १८४ अव्ययं कतियुष्मदः। १८५ ष्णान्ता संख्या । शिष्टा परवत् । एकः पुरुषः । एका स्त्री। एक कुलम् । १८६ गुणवचनं च। शुक्रः पटः। शुक्ला पटी। शुक्लं वस्त्रम् । १८७ कृत्याश्च । १८८ करणाधिकरणयोर्युट् च । १८६ सर्वादीनि सर्वनामानि । स्पष्टार्थेयं त्रिसूची। इति लिङ्गानुशासनं समाप्तम् । इति श्रीभट्टोजिदीक्षितविरचिता वैयाकरण सिद्धान्तकौमुदी संपूर्णा ॥ तथा चेति । इति पुनपुंसकाधिकारः । _ अविशिष्टलिङ्गम् । तत्तल्लिङ्गवाचकताप्रयुक्तकार्यविशेषशून्यम् । शिष्टा इति । पूर्वोक्तशब्दान्यतमत्वावच्छिन्नप्रतियोगिताकभेदवन्तः । परवदिति । विशेष्यवदित्यर्थः । गुणवचनं च । परवदित्यनुवर्तते । कृत्याश्च । कृत्यप्रत्ययान्ताः परवद्बोध्याः। सर्वादीनि सर्वनामानि। सर्वनामसंज्ञकानि सर्वादीनि परवद्बोध्यानि । स्पष्टार्थेति । लोकव्युत्पत्त्यैव तत्तल्लिङ्गाभिधानसिद्धत्वात् । अत एव लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य' इति भगवता भाष्यकृतोक्तम् । तेन यौगिकेषु शब्देषु लोकव्युत्प. त्तिरेव लिमाभिधाने प्रमाणमिति सिद्धम्। इति लिङ्गानुशासनविवरणम् । इति श्रीमदनन्तकल्याणसद्गुणनिधानाखिलपण्डितसार्वभौमभूमण्डल संचारिविमलतरानवद्यसद्यशःपार्वणपीयूषभान्वगस्त्यकुलवंशावतंसश्रीमद्भवदेवमिश्रात्मजभैरवमिश्रप्रणीतं लिङ्गानु. शासनव्याख्यानं संपूर्णम् । संपूर्णा चेयं सिद्धान्तकौमुदी ।
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy