________________
प्रकरणम् | भैरवीचन्द्रकलासहिता। [६२७ स्त्रीस्वविशिष्टे तु किन्नादिभिर्वाधेन परिशेषात् । कर्मादौ तु घनाद्यन्तमपि विशेष्यलिङ्गम् । तथा च भाष्यम् । संबन्धमनुवर्तिन्यत इति । ३७ घाजन्तश्च । विस्तरः । गोचरः। चयः जय इत्यादि । ३८ भयलिङ्गभगपदानि नपुंसके। एतानि नपुंसके स्युः । भयम् । लिङ्गम् । भगम् । पदम् । ३६ नङन्तः । नप्रत्ययान्तः पुंसि स्यात् । यज्ञः। यत्नः । ४० याच्या स्त्रियाम्। पूर्वस्यापवादः । ४१ क्यन्तो घुः । किप्रत्ययान्तो घुः पुंसि स्यात् । प्राधिः । निधिः । उदधिः । क्यन्तः किम् -दानम् । घुः किम्-जशिर्बीजम् । ४२ इषुधि. स्त्री च । इषुधिशब्दः स्त्रियां पुंसि च । पूर्वस्यापवादः । ४३ देवासुरात्म. स्वर्गगिरिसमुद्रनखकेशदन्तस्तनभुजकण्ठखड्गशरपङ्काभिधानानि । एतानि पुंसि स्युः । देवाः सुराः । असुरा दैत्याः। भारमा क्षेत्रज्ञः । स्वर्गो नाकः । गिरिः पर्वतः । समुद्रोऽन्धिः । नखः कररुहः । केशः शिरोरुहः । दन्तो दशनः । स्तनः कुचः । भुजो दोः। कराठो गलः । खड़गः करवालः । शरो मार्गणः । पकः कर्दम इत्यादि। ४४ त्रिविष्टपत्रिभूवने नसके। स्पष्टम् । तृतीयं विष्टपं त्रिविष्टपम् । स्वर्गाभिधानतया पुंस्त्वे प्राप्ते अयमारम्भः। ४५ द्यो: स्त्रियाम् । योदिवोतन्त्रेणोपादानमिदम् । ४६ इषुबाह स्त्रियांच। चारपुंसि। ४७ बाणकाण्डौ नपुंसके च। चारपुंसि । त्रिविष्टपेत्यादिचतुःसूत्री देवा. सुरेल्थस्थापवादः । ४८ नान्तः। अयं पुंसि । राजा। तक्षा। न च चर्मवर्मा. दिग्वतिव्याप्तिः मन्यकोऽकर्तरीति नपुंसकप्रकरणे वषयमाणस्वात् । ४६ ऋतुपुरुषकपोलगुल्फमेघाभिधानानि । ऋतुरध्वरः । पुरुषो नरः । कपोलो गण्डः । गुरुफः प्रपदः । मेघो नीरदः । ५० अभं नपुंसकम् । पूर्वस्यापवादः । ५१ उकारान्तः। अयं पुंसि स्यात् । प्रभुः । इतुः । हनुहट्टविनासिन्यां
माह नपुंसकेत्यादि । भयलिङ्गेत्यादि । पूर्वस्यापवादोऽयम्। क्यन्तो घुः । किप्रत्ययोऽन्तः परो यस्मात्तादृशो घुसंज्ञको धातुस्तद्धटितः पुमानित्यर्थः । देवासुरा। अत्र पङ्कशब्दान्तद्वन्द्वं कृत्वा तस्य षष्ठीसमासोऽभिधानशब्देन कर्तव्यः, अभिधानशब्दः करणल्युडन्तो वाचकशब्दपरः, तेन देवादिशब्दवाच्यतावच्छेदकेत्यादि पूर्ववद्बोध्यम् । शब्दस्वरूपापेक्षया च नपुंसकत्वम् । त्रिविष्टप। स्वर्गाभिधानत्वात्वात्पुंस्त्वे प्राप्तेऽयमारम्भ इति । अत एवाहामरसिंहः 'क्लीबे त्रिविष्टपम्' इति । द्यौः स्त्रियाम् । अस्य स्वर्गाभिधानत्वात्पुंस्त्वस्य पूर्वेण प्राप्तेरयमारम्भः । इषुबाहू। शरभुजपर्यायाविमौ । बाणकाण्डौ । शराभिधानोऽयम् । नान्त इति । नान्तप्रत्ययान्त इत्यर्थः । अभ्रं नपुंसकमिति। मेघाभिधानविषये पूर्व