________________
६०]
सिद्धान्तकौमुदी। [पूर्वकृदन्त२६५५ खचि हवः। (६-४-६४) खच्परे गौ उपधाया हस्वः स्यात् । द्विषन्तं परं वा तापयतीति द्विषन्तपः परन्तपः । घटघटीग्रहणाङ्गिवि. शिष्टपरिभाषा अनित्या। तेनेह न । द्विषतीं तापयतीति द्विषतीतापः। २६५६ वाचि यमो व्रते । (३-२-४०) वाक्छन्द उपपदे यमेः खस्याव्रते गम्ये । २६५७ वाचंयमपुरन्दरौ च । (६-३-६६) वाक्पुरोरमन्तत्वं निपात्यते । वाचंयमो मौनव्रती । व्रते किम्-अशक्त्यादिना वाचं यच्छतीति वाग्यामः । २६५८ पू:सर्वयोर्दारिसहोः । (३-२-४१) पुरं दारयतीति पुरन्दरः । द्वयोरपि एयन्तयोस्तापेरिति निर्देशः । खच् स्यादिति । द्विषत्, पर अनयोः कर्मणोरुपपदयोः तापेः खजित्यर्थः । द्विषत् तापि अ इति स्थिते आह खचि हवः । 'दोषो णौ' इत्यतो णाविति 'ऊदुपधाया:-' इत्यत उपधाया इति चानुवर्तते, तदाह खच्परे णाविति । खशि प्रकृते खचो विधिरिह इस्वार्थः णिलोपार्थश्च । खशि तु तदुभयं न स्यात्, खशः शित्त्वेन सार्वधातुकतया णिलोपासंभवात् । न च इहैव सूत्रे खज्विधीयतम्, पूर्वसूत्रे खशेवानुवर्ततामिति वाच्यम्, अन्यतोऽपि विधानार्थत्वात् । एवं च 'गमेः सुपि-' इति वार्तिकम् एतल्लब्धार्थकथनपरमेवे याहुः। द्विषन्तप इति । 'अरुर्द्विषत्-' इति तकारात्प्राग मुम् । परन्तप इति । परः शत्रुः । ननु लिङ्गविशिष्टपरिभाषया द्विषतीशन्देऽप्युपपदे तापेः खचि द्विषतीतप इति स्यात् । द्विषतीताप इत्यराणन्तं न स्यादित्यत आह घटघटीति । 'शक्तिलाङ्गलाकुशयष्टितोमरघटघटीधनुष्षु ग्रहेरुपसंख्यानम्' इत्यत्र घटप्रहणेनैव लिविशिष्टपरिभाषया घटीशब्दस्यापि सिद्धे पुनर्घटीग्रहणाद् लिङ्गविशिष्टपरिभाषा अनित्येति विज्ञायते इत्यर्थः । उपपदविधी लिङ्गविशिष्टपरिभाषा नेति व्याप्सूत्रे भाष्याचेत्यपि द्रष्टव्यम् । वाचि यमो व्रते। इत्यादि वक्तव्यम् । वाचंयमपुरन्दरौ च । वाक्पु. रोरिति । वाचं यच्छतीति, पुरं दारयतीति च विग्रहे यमेरिश्च खच् । सुपो लुकि वाच् यम, पुर् दार, इति स्थिते वाक्पुरोरमन्सत्वं निपात्यते इत्यर्थः । 'अरुदिषदजन्तस्य-' इति मुमस्तु न प्रसक्तिः । पूःसर्वयोर्दारिसहोः। दारिसहोरिति पञ्चम्यर्थे षष्ठी । पुरशन्दे सर्वशब्दे च कर्मवाचिन्युपपदे दारेः सहेश्च खजित्यर्थः । यथासंख्यमन्वयः। दारीति ण्यन्तस्य ग्रहणम् । पुरन्दर इति । पुरं दारयतीति सुपि-' इति खच् । द्विषंतप इति । 'अरुर्दिषत्-' इति मुमि कृते संयोगान्तलोपः । वाचि यमो व्रते। निपात्यत इति । न चैवं खच् प्रत्ययोऽप्यत्रैव निपात्यतामिति वाच्यम् , व्रतादन्यत्रापि प्रसङ्गात् । यदि तु निपातनबलादेव व्रतविषयता आश्रीयते तत्रैव वा व्रताहणं क्रियते वाचंयमो व्रते पुरंदरश्चेति तदा इह 'वाचि