SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६६]. बालमनोरमा-तत्त्वबोधिनीसहिता। [५६ माघति दीप्यतेऽबिन्धनत्वादिति इरम्मदो मेघज्योतिः । इह निपातनाच्छयन । पाणयो मायन्तेऽस्मिमिति पाणिन्धमोऽध्वा । अन्धकाराद्यावृत इत्यर्थः । तत्र हि सर्पाद्यपनोदनाय पाणयः शब्द्यन्ते । २६५३ प्रियवशे वदः खच् । (३-२-३८) प्रियंवदः । वशंवदः । 'गमेः सुपि वाच्यः' (वा २००६)। असंज्ञार्थमिदम्। मितङ्गमो हस्ती । 'विहायसो विह इति वाच्यम् (वा २०१०) खच डिद्वा वाच्यः' (वा २०११)। विहङ्गः, विहङ्गमः । भुजङ्गः, भुजङ्गमः । २६५४ द्विषत्परयोस्तापेः । (३-२-३६) खच् स्यात् । इति । खित्यनव्ययस्य' इति ह्रस्वः । मदर्दैवादिकत्वात् श्यनमाशङ्कयाह निपातनाच्छयन्नेति । पाणिन्धम इति । शपि 'पाघ्रा-' इति धमादेशः । प्रियवशे । प्रिये वशे च कर्मण्युपपदे वदधातोः खजित्यर्थः । खशि प्रकृते खज्विघेरुत्तरसूत्रे प्रयोजनं वक्ष्यते । गमेः सुपि वाच्य इति । खजिति शेषः । ननु संज्ञायामित्यनुवृत्तौ 'गमश्च' इति वक्ष्यमाणसूत्रेणैव सिद्ध किमर्थमिदं वार्तिकमित्यत आह असंज्ञार्थमिदमिति । विहायस इति । विहायश्शब्दः आकाशे वर्तते । तस्मिन्नुपपदे गमेः खच् । 'गमश्च' इति वक्ष्यमाणसूत्रेण पूर्ववार्तिकेन वा सिद्धः खच् 'च' इत्यनूद्यते । प्रकृतेविहायश्शब्दस्य विहादेशो वाच्यः, स च खच् डिद्वा वाच्य इत्यर्थः । विहङ्ग इति । डित्त्वपक्षे तत्सामर्थ्यादभस्यापि टेर्लोपः। विहङ्गम इति । विहायसा गच्छतीति विग्रहः । भुजङ्गम इति । भुजैर्गच्छतीति विप्रहः । द्विषत्परयो । 'तप दाहे' चुरादिः, 'तप सन्तापे' भ्वादिः । परपुरुषमिति । तेन सत्यपि सूर्यदर्शने प्रयोगो न विरुध्यते । यदा तु सूर्याभावदर्शनमात्रं सूर्येतरचन्द्रादेर्दर्शनं वा विवक्षितं तदा खश न भवत्यनभिधानादिति न्यासकारादयः। प्रियवशे वदः खच् । खकारो मुमर्थश्वकारस्तु 'खचि ह्रस्वः' इति विशेषणार्थ इति वृत्तिः। खे हख इत्युच्यमाने एजेः खश् जनमेजय इत्यत्रापि स्यादिति तदाशयः । 'एकानुबन्धग्रहणे द्यनुबन्धस्य न ग्रहणम्' इति खशि न भविष्यतीत्यादिना वृत्तिग्रन्थस्यायुक्तत्वमाहुः। खशि प्रकृते प्रत्ययान्तकरणमुत्तरार्थम् । द्विषन्तप इत्यत्र ह्रखणिलोपौ यथा स्याता शप् च माभूदिति । नन्वेवमुत्तरत्रैव क्रियतामिति चेत् । सत्यम् । इह करणमन्यतोऽपि क्वचिद् भवतीति ज्ञापनार्थम् , तेन 'गमेः सुपि-' इति नापूर्व वार्तिकं किं तु ज्ञापकसिद्धमेव । असंज्ञार्थमिति । संज्ञायां तु वक्ष्यमाणेन 'गमश्च' इति सूत्रेणैव सिद्धमिति भावः । विहंगम इति । विहायसा आकाशेन गच्छतीति विग्रहः । पूर्ववार्तिकेनैक्यमकृत्वा 'खच्च डिद्वा' इति पृथक्करणसामर्थ्यादन्यत्रापि क्वचिद्भवतीत्याशयेनोदाहरति भुजंगः, भुजंगम इति । इह 'गमेः
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy