________________
५८ ]
सिद्धान्तकौमुदी ।
[ पूर्वकृदन्त
लिहः । ( ३-२-३२ ) वहः स्कन्धस्तं लेढीति वहंलिहो गौः । श्रदादिस्वाच्छ पो लुक् । खशो डिस्वाच गुणः । श्रभ्रंलिहो वायुः । २६४८ परिमाणे पचः । ( ३-२-३३ ) प्रस्थम्पचा स्थाली । खारिम्पचः कटाहः । २६४६ मितनखे च । ( ३-२-३४ ) मितम्पचा ब्राह्मणी । नखम्पचा यवागूः । पचिरत्र ताप - वाची । २६५० विष्वरुषोस्तुदः । ( ३-२-३५ ) विधुन्तुदः मुमि कृते संयोगान्तस्य लोपः । श्ररुन्तुदः । २६५१ सूर्यललाटयोईशितपोः । ( ३-२-३६) सूर्यमित्य समर्थसमासः । दृशिना नञः संबन्धात् । सूर्य न पश्यन्तीत्य सूर्यम्पश्या राजदाराः । ललाटन्तपः सूर्यः । २६५२ उग्रम्पश्येरम्मदपाणिन्धमाश्च । ( ३-२-३७ ) एते निपात्यन्ते । उग्रमिति क्रियाविशेषणं तस्मिन्नुपपदे दृशेः खश् । उग्रं पश्यतीत्युग्रम्पश्यः । इरोदकं तेन
1
पदे लिहः खशित्यर्थः । वहशब्दस्य विवरणम् -स्कन्ध इति । शपो लुगिति । खशः शित्त्वेन सार्वधातुकत्वात् कृतस्य शपो लुगित्यर्थः । परिमाणे पचः । परिमाणं प्रस्थादि । तस्मिन् कर्मण्युपपदे पचेः खशित्यर्थः । खारिम्पच इति । 'खित्यनव्ययस्य' इति ह्रस्वः । मुम् । मितनखे च । मिते नखे च कर्मण्युपपदे पचेः खशित्यर्थः । नखानां विक्लित्त्यसंभवादाह पचिरत्रेति । विध्वरुषोस्तुदः । विधु, अरुस्, अनयोः कर्मणोरुपपदयोः तुदः खशित्यर्थः । विधुंतुद इति । विधुचंन्द्रः तं तुदतीति विग्रहः । राहुरित्यर्थः । अरुशब्दे उकारादुपरि मुमि कृते सकारस्य संयोगान्तलोप इत्यर्थः । श्ररुन्तुद इति । श्रम तत्तुदतीति विग्रहः । 1 सूर्यललाट । दृशितपोरिति पञ्चम्यर्थे षष्ठी । असूर्ये ललाटे च कर्मण्युपपदे दृशेस्तपेश्च खशित्यर्थः । असूर्यमितीति । असूर्यपश्या इत्युदाहरणे असूर्यमित्यसमर्थसमासः सौत्र इत्यर्थः । कुतोऽसामर्थ्यामित्यत आह दृशिनेति । सूर्य न पश्यन्तीत्यर्थं नञो दृशिनान्वितत्वेन सूर्यशब्देनान्वयाभावादित्यर्थः । ललाटन्तपः सूर्य इति । ललाटं तपतीति विग्रहः । सूर्य पश्यतो ललाटस्य अवश्यं तापादिति भावः । उग्रम्पश्य । उग्रम्पश्य, इरम्मद, पाणिन्धम एष द्वन्द्वः । उग्रम्पश्य इति । खशि शप्, पश्यादेशः । इराशब्दस्य विवरणम् उदकमिति । इरम्मद
,
असत्त्ववाचित्वेनासंभवात् स्देतदाह उत्पूर्वाभ्यामित्यादिना । विधुन्तुद इति । 'प्ररुर्द्विषदजन्तस्य ' इत्यु रात्रो मुम् । तमस्तु राहुः स्वर्भानुः सैंहिकयो विधुन्तुदः' इत्यमरः । अरुन्तु इति । 'अरुन्तुदं तु मर्मस्पृक्' इत्यमरः । ' व्रणोऽस्त्रियामीमरुः' इति च । असूर्यपश्या इति । 'पाघ्राध्मा -' इति पश्यादेशः । गुप्तिपरं चेदम् । एवं नाम राजदारा गुप्ता यदपरिहार्यदर्शनं सूर्यमपि न पश्यन्ति किं पुनः