SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६६] बालमनोरमा-तत्त्वबोधिनीसहिता। [५७ ( वा २००६-७ ) । स्वनं धयतीति स्तनन्धयः । धेटष्टिस्वारस्तनन्धयी । नासिकन्धमः, नासिकन्धयः । २६४५ नाडीमुष्टयोश्च । (३-२-३०) एतयोरुपपदयोः कर्मणोधेिटोः खश् स्यात् । 'यथासंख्यं नेष्यते' । नाडिन्धमः नाडिन्धयः। मुष्टिन्धमः, मुष्टिन्धयः । 'घटीखारीखरीषूपसंख्यानम्' (वा २००८)। -घटिन्धमः, घटिन्धय इत्यादि । खारी परिमाणविशेषः । खरी गर्दभी। २६४६ उदि कूले रुजिवहोः । (३-२-३१) उत्पूर्वाभ्यां रुजिवहिम्यां कूले कर्मण्युपपदे खश् स्यात् कूल मुद्रुजतीति कूलमुद्रुजः । कूलमुद्वहः । २६४७ वहाभ्रे कमिति । धेटष्टित्त्वादिति । यद्यपि 'टिड्ढ-' इत्यत्र टिदाद्यन्तं यददन्तं प्रातिपदिकमिति व्याख्यातम् तथापि टित्त्वस्यावयवे अचरितार्थत्वाद् गेबिति हरदत्तः । अत्र यद्वक्तव्यं तत् 'पाघ्रामाधेदृशः शः' इत्यत्रोक्तम् । नासिकन्धम इति । ह्रस्वे कृते मुम् । नासिकायाः ध्मश्चेति चकाराद्धेटश्चेति लभ्यते । तस्योदाहरति नासिकन्धय इति । नाडीमुष्टयोश्च । यथासंख्यं नेष्यत इति । इदं तु भाष्ये स्पष्टम् । घटीखारीति । इत्यादि स्पष्टम् । उदि कूले । उदीति दिग्योगपञ्चम्यर्थे सप्तमी। रुजिवहोरिति पञ्चम्यर्थे षष्ठी। 'रुजो भने तुदादिः। अत्र रुजेः सकर्मकत्वात् कर्मण्युपपद इति लब्धम् । तेन कूलं विशेष्यते। न तु उच्छब्दः, तस्य असत्त्ववाचित्वात् , तदाह उत्पूर्वाभ्यामित्यादि। कूलमु. दुज इति । सुपो लुकि मुमिति भावः । वहाभ्रे लिहः । वहे अभ्रे च कर्मण्युपअवयवे अचरितार्थत्वादिति भावः । खश्प्रत्ययान्तादेव धेटो डोबिष्टो नान्यत इति वर्धमानक्षीरस्वामिहरदत्तादयः । तेन 'पाघ्राध्माधेट्-' इति शप्रत्यये 'आतोऽनुपसँगै कः' इति कप्रत्यये च टाबेव । धया कन्या। गां धयतीति गोधा । अत्र च संप्रदाय एव शरणम् । नासिकंधम इति । 'पाघ्राध्मा-' इति धमादेशः । नाडीमु. ष्टयोश्च । यथासंख्यं नेति । एतच्चेहैव सूत्रे भाष्ये वृत्तौ च स्थितम् । यत्तु 'यथासंख्यम्' इति सूत्रे नाडीमुष्टयोरित्युदाहृतं भाष्ये तत्प्राप्तिमात्राभिप्रायेणेत्येके । शब्दकौस्तुभे तु मतभेदेन तद्बोध्यमिति स्थितम् । घटीखारीखरीष्विति । जयादित्यस्तु वातशब्दमप्युदाजहार । वातंधमः, वातंधय इति । तत्तु भाष्यादौ न दृश्यत इति मूले एवोपक्षितम् । उदि कूले । ननु कूलस्येवोच्छब्दस्यापि सप्तम्यन्तत्वादुपपदत्वं स्यात्त. तश्च रुजिवहिभ्यां सह यथासंख्यं स्यादिति चेत् । अत्राहुः-नाडीमुष्टयोरितिव. लाघवादुत्कूलयोरिति वक्तव्ये उदीति व्यस्तोचारणामोपपदम् । एवं चोदीति पञ्चम्या: स्थाने सप्तमी, रुजिवहोरिति तु पञ्चम्याः स्थाने षष्ठीति । एतच्च यथासंख्यसूत्रे कैयटे स्पष्टम् । किं च रुजेः सकर्मकत्वात्कर्मणीत्युपतिष्ठते तेन कूलं विशेष्यते नोच्छन्दः,
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy