________________
५६ ]
सिद्धान्तकौमुदी। [पूर्वकृदन्त. स्वव्ययस्य । शित्वाच्छवादिः। जनमेजयतीति जनमेजयः । 'वातशुनीतिलशधैवजधेट्तदजहातिभ्यः खश उपसंख्यानम् (वा २००५)। वातमजा मृगाः। २६४३ खित्यनव्ययस्य । (६-३-६६ ) खिइन्ते परे पूर्वपदस्य हस्वः स्यात् ततो मुम् । शुनिन्धयः । तिबन्नदः । शर्धअहा माषाः । शर्धोऽपानशब्दस्तं जहतीति विग्रहः । जहातिरन्तर्भावितण्यर्थः । २६४४ नासिकास्तनयोर्माधेटोः । (३-२-२६ ) अत्र वार्तिकम्-'स्तनधेटो नासिकायां मश्चेति वाच्यम्' खिदन्ते उत्तरपदे इति । जनमेजय इति । जनान् एजयतीति विग्रहः । खशः शित्त्वात्सार्वधातुकत्वं शप् , गुणायादेशौ, पररूपम् , सुपो लुकि, मुम् । वातशुनीति । वार्तिकमिदम् । वात, शुनी, तिल, शर्ध एषां द्वन्द्वात्सप्तमी। अज, धेट, तुद, जहाति एषां द्वन्द्वात्पञ्चमी । यथासंख्यमन्वयः। वातमजा इति । वातमजन्तीति विप्रहः । सुपो लुकि मुम्। अथ शुनीं धयतीति विग्रह शुनीशब्दे उपपदे धेटः खशि अयादेशे पररूपे शुनी धय इति स्थिते आह खित्यनव्ययस्य । ह्रखः स्यादिति । 'इको ह्रखोऽयो गालवस्य' इत्यतः तदनुत्तरिति भावः । अत्र हखश्रुत्या अच इत्युपस्थितं द्रष्टव्यम् । ततो मुमिति । पूर्व ह्रस्वे कृते ततो मुमित्यर्थः । पूर्व मुमि कृते तु अजन्तत्वभावास्वो न स्यादिति भावः। शर्धअहा माषा इति । भाष्ये तु मृगा इति पाठः । शधेः अपानद्वारे स्थितः शब्द इति माधवादयः । अन्तर्भावितेति । तथा च शध हापयन्तीति विग्रहः फलितः। भाष्ये तु 'वातशुनी-' इति वार्तिके गर्धेवि ति पठितम् । नासिका। नासिका, स्तन अनयोः द्वन्द्वात्सप्तमी। ध्मा, धेट् अनयोः द्वन्द्वात्पञ्चम्यर्थे षष्ठी। खशिति शेषः। यथासंख्यमन्वये प्राप्ते आह अन वार्तिझात् । तद्धि सार्वधातुकत्वे सति शप् यथा स्यादिति। न च शुद्धस्य शब्दस्य शपि सत्यसति वा विशेषोऽस्ति । न चोत्तरार्थ शित्त्वमिति वाच्यम् , इहार्थवत्त्वे संभवति केवलोत्तरार्थत्वस्यान्याय्यत्वात्तदेतदाह ण्यन्तादेजेरिति । अरुर्विषत् । वर्णप्रहणे तदन्तविधेः सिद्धावप्यन्तग्रहणं शुनिधय इत्यादौ हखे कृते मुम्प्रवृत्त्यर्थम् । तथा हि अन्तःशब्दः समीपपरः अचासावन्तश्चेति विग्रहः । निपातनाद्विशेषणस्य परनिपातः । समीपः 'खित्यनव्ययस्य' इति सूत्रेण विहितो योऽच् तदन्तस्य मुमिति व्याख्यायते। एवं च जनमेजय इत्यादौ खतो हखेऽपि मुसिद्धये प्रथमं खितीति ह्रखः प्रवर्तनीय इत्यवधेयम् । शर्धजहा इति । शर्धनं शर्धः । शृधु कुत्सायाम् । घन् । तं जहति इति । ननु माषाः शर्धमपानशब्दं त्याजयन्ति न तु स्वतो जहतीत्याशङ्कायामाह अन्तर्भावितण्यर्थ इति । यथासंख्यं वारयितुमाह अत्रेति । धेटष्टित्त्वादिति ।