________________
प्रकरणम् ] भैरवीचन्द्रकलासहिता । [६२५ विषयादन्यत्र पुंसि स्तः । नाभिः क्षत्रियः । कथं तर्हि समुरुखसत्पङ्कजपत्रकोम. रुपाहितश्रीण्युपनीविनामिरिति भारविः । उच्यते । दृढभक्तिरित्यादाविव कोमलैरिति सामान्ये नपुंसक बोध्यम् । वस्तुतस्तु लिङ्गमशिष्यं लोकाश्रयस्वादिला. स्येति भाष्यारपुंस्वमपीह साधु । अत एव नाभिमुंख्यनृपे चक्रमध्यक्षत्रिययोः पुमान् । द्वयोः प्राणिप्रतीके स्यात् स्त्रियां कस्तूरिकामद इति मेदिनी । रभसोऽ. प्याह-मुख्यराट्क्षत्रिये नाभिः पुंसि प्राण्यङ्गके द्वयोः। चक्रमध्ये प्रधाने च स्त्रियां कस्तूरिकामद इति । एवमेवंविधेऽन्यत्रापि बोध्यम् । १७ तलन्तः । अयं स्त्रियां स्यात् । शुक्रस्य भावः शुक्लता । ब्राह्मणस्य कर्म ब्राह्मणता। ग्रामस्थ समूहो मामता। देव एव देवता । १८ भूमिविद्युत्सरिल्लतावनिताभिधानानि । भूमिभूः । विद्युत्सौदामनी । सरिविनगा। लता वही । वनिता योषित् । १६ यादो नपुंसकम् । यादःशब्दः सरिद्वाचकोऽपि क्खी स्यात् । (भाःस्रस्रग्दिगुठिणगुपानहः । एते स्त्रियां स्युः । इयं भा इत्यादि । २१ स्थूणोणे नपुंसके च । एते स्त्रियां क्लीवे च स्तः । स्थूणा । स्थूणम् । अर्णा । उर्णम् । तत्र स्थूणा काष्ठमयी द्विकर्णिका । ऊर्णा तु मेषादिलोम । २२ गृहशशाभ्यां क्लीके । नियमार्थमिदम् । गृहशशपूर्वे स्थूणोणे यथासंख्यं नपुंसके स्तः । गृहस्थूणम् । शशोणं शशलोमनी. स्यमरः । २३ प्रावृद्विप्रएट्वित्विषः । एते स्त्रियां स्युः । २४ दर्विविदिवेदिखनिशान्यश्रिवेशिकृष्योषधिकटयङ्गुलयः । एते स्त्रियां पूर्वसूत्रयोः 'अक्षेष्वक्षत्रिये' इत्यभिधानेन सिद्धेः। कथंतीति । अत्र यत्कोमलैरिति तदनुपपन्नम् । स्त्रीलिङ्गनाभिशब्दाविशेषणत्वात् । सामान्य इति । लिङ्गविशेषाविवक्षया नपुंसकं कोमलैरिति प्रसाध्य तस्य नाभिशब्दार्थविशेषणत्वं स्वीकार्यम् । विशेष्यप्रतिपादकस्य यथा पुंस्त्वं तथास्यापि भविष्यतीत्याशयेन समाधानान्तरमाह वस्ततस्त्विति । 'चक्रमध्यक्षत्रिययोः' इत्यत्र चक्रमध्यं च क्षत्रियश्चेति द्वन्द्वः । अत एव 'प्राण्यङ्गके द्वयोः' इति संगच्छते। तलन्तः । 'तस्य भावस्त्वतलौ' इति सूत्रविहिततलप्रत्ययान्तः स्त्रियां स्यात् । भूमिविद्युदिति । अत्राभिधानशब्दो भूम्यादिशब्दे शक्यतावच्छेदकधर्मावच्छिन्नशक्तपरत्वेन प्रमेयशब्दव्यावृत्तिः । एव. मन्यत्रापि बोध्यम् । यादो नपुंसकम् । पूर्वस्यापवादः । स्थूणोणे नपुंसके च । चकारेण स्त्रियामित्यस्यानुकर्षणार्थमस्यात्र लेखः । प्रावृडिति । स्त्रीशब्दस्य पूर्वत्र चानुकृष्टत्वेऽपि 'स्वरितेनाधिकारः' इत्यस्याधिकः कार इति व्याख्यानस्यापि प्रसिद्धत्वादत्र संबन्धः । दर्विविदि । दर्विशब्दो 'वृभ्यां विन्' इति विन्नन्तः, 'सर्वतोऽ.