________________
भैरवमिश्रकृतव्याख्यासंवलिता सिद्धान्तकौमुदी।
लिङ्गानुशासनम् । ७१।
स्याधिकारः। १ लिङ्गम् । २ स्त्री । अधिकारसूत्रे एते । ३ ऋकारान्ता मातृदुहितस्वसृपोतननान्दरः । कारान्ता एते पञ्चैव स्त्रीलिङ्गाः । स्वस्त्रादिपञ्चकस्यैव कीनिषेधेन कीत्यादींपा इकारान्तत्वात् । तिसृचतम्रोस्तु स्त्रियामादेशतया विधानेऽपि प्रकृत्योस्त्रिचतुरोदन्तस्वाभावात् । ४ अन्यू
श्रीः। मूले-अधिकारसूत्रे एते इति। उभयोरधिकारसूत्रत्वेऽपि 'लिङ्ग'मित्याशास्त्रसमाप्तेः, द्वितीयस्तु 'ताराधारा-' इति यावदिति विवेकः । अत्रापि लिङ्गं शास्त्रीयं प्रागुक्तमेव विवक्षितम् । तच्चार्थनिष्ठं तच्छन्दप्रतिपाद्यम् । तत्रायं विशेषः । शब्दशक्तिस्वभावेन कस्यचित्सर्वलिङ्गप्रतिपादकता, कस्यचिदेकलिङ्गप्रतिपादकता, कस्यचिद्विलिङ्गयुक्तार्थप्रतिपादकता चेति । यद्यपि शब्दानामर्थानां चानन्त्यात्प्रातिस्विकरूपेण तेषां ज्ञान योगिनां युक्तयुञानत्वेन व्यवहारयोग्यानामेव संभवति न त्वस्मदादीनामज्ञानाम् , तथाप्यस्मदाद्युद्देशेन शास्त्रप्रवृत्तेर्यथा लघुनोपायेनास्मदादीनां ज्ञानं संभवे. त्तथाह ऋकारान्ता इत्यादिना। 'स्त्री'ति पदमेषु सूत्रेषु संबध्यते । तच्च भावप्रधान. निर्देशन स्त्रीत्वपरम् । तस्य लिङ्गपदेन बहुव्रीहिसमासे 'स्त्रीलिङ्गा' इति सामानाधिकरण्येन व्यवहारः । मात्रादिशब्दानां विशेषत उपादानात्पञ्चेति लब्धम् । अवधारणस्य तु यथा लाभस्तं प्रकारमाह स्वस्त्रादिपञ्चकस्यैवेति । ङीनिषेधेनेति । 'न षट्स्वस्रादिभ्यः' इति सूत्रेण ङोपो निषेधेन । कीत्यादेरिति । अनेन कर्तृपदेन यौगिकाः शब्दा ऋकारान्ताः परिग्राह्याः। रूढस्य क्रोष्ट्रप्रमृतिशब्दस्यादिना परि. प्रहः । न च सप्तेवेति वक्तव्ये पञ्चैवेति नियमानुपपत्तिरिति वाच्यम् , आदेशत्वाना. कान्ताः पञ्जैवेत्यर्थात् । यद्यपि भाष्यसंमते 'तृज्वत्कोष्टुः' इत्यादित्रिसूत्र्याः प्रयोगनियमार्थत्वपक्षे स्त्रियां प्रवर्तमानस्य कोष्टशब्दस्यादेशत्वानाक्रान्तत्वम् , तथापि परिनिष्ठिते शब्देऽयमीकारान्त एव प्रयुज्यत इति भावः । 'उणादयो बहुलम्' इति संगृहीतसाधुत्वकानां व्युत्पन्नत्वं शास्त्रान्तरे प्रसिद्धमिति तदभिप्रायेणाह अन्यू