________________
६२२ ]
सिद्धान्तकौमुदी ।
न्प्रत्ययान्तो निस्स्वरेणायुदात्तः । रत्नशब्दो ( फि० ) 'नब्विषयस्य' इत्याधुदात्तः । रत्नानि दधातीति रतधाः । समासस्वरेण कृदुत्तरपदप्रकृतिस्वरेण वान्तोदात्तः । तमपः पिश्वादनुदात्तत्वे स्वरितप्रचयावित्यादि यथाशास्त्र मुझेयम् ॥ इति स्वरसंचारः ।
इत्थं वैदिकशब्दानां दिङ्मात्रमिह दर्शितम् ।
तदस्तु प्रीतये श्रीमद्भवानीविश्वनाथयोः ॥ १ ॥ इति सिद्धान्तकौमुद्यां श्रीभट्टोजिदीक्षितविरचितायां वैदिकस्वरप्रक्रिया ||
ऋत्विगिति । ऋतावुपपदे यजेः किन् ऋत्विगित्यनेन ' वचिस्वपि -' इति संप्रसा रणम् । नब्विषयस्येति । इसन्तवर्जितस्य नित्यनपुंसकस्यादिरुदात्त इति सूत्रार्थः । इति स्वरसंचारः । इति श्रीमन्मौनि कुलतिलकायमान श्री गोवर्धन भट्टात्मज रघुनाथात्मजेन जयकृष्णेन कृतायां सुबोधिन्याख्यायां सिद्धान्तकौमुदीव्याख्यायां वैदिकस्वरप्रक्रिया |
तदाऽयं विकारः पदसन्धिरुक्तः । स च व्यञ्जनादिः स्वरादिर्वा भवति । यदि व्यञ्जनादिस्तदा प्रचये प्राप्तेऽयमपवादः । अनार्षादितिकरणात्परेषामक्षराणां न्यासमुदात्तमाचारं व्यालिराचार्यो मन्यते । यदा तु स्वरादिर्भवति तेन खरादिना एकाक्षरीकृतात्परेषां न्यासमिति तुल्यम् । तौ उदात्तस्वरितौ चेत्खरौ परौ भवत इत्यर्थः । अनार्षान्तादित्यस्योदाहरणं - रत्नधातममिति रत्नधातमम्। तेनैवैकाक्षरीकृतादित्यस्योदाहरणम् - अललाभवन्तीरित्यललाभवन्तीः । श्रलला इति शब्दानुकरणमिति तद्भाष्यकृत इति सर्वेष्टसिद्धिः ।
शब्देन्दुशेखरः पुत्रो मम्जूषा चैव कन्यका | स्वमतौ सम्यगुत्पाद्य शिवयोरर्पितौ मया ॥ १ ॥ शब्देन्दुशेखरः सोऽयं फणिभाष्यो विभूषितः । सतां हृस्कमलेष्वाखां यावच्चन्द्रदिवाकरौ ॥ २ ॥ इति श्रीमदुपाध्यायोपनामकशिवभट्ट सुतसती गर्भजनागेश भट्टरचिते लघुशब्देन्दुशेखराख्ये सिद्धान्तकौमुदी व्याख्याने उत्तरार्द्ध समाप्तम् । समाप्तोऽयं लघुशब्देन्दुशेखराख्यो ग्रन्थः ।