________________
प्रकारः ]
सुबोधिनी-शेखरसहिता ।
[ ६२१
(३६६०) इतीकारः स्वरितः । 'स्वरितात्संहितायाम् ' ( ३६६८) इति के इत्यस्य प्रचवापरपर्याया एकश्रुतिः । पुरः शब्दोऽन्तोदात्तः । 'पूर्वाधरावराणाम्' (१६७५) इत्यसि प्रत्ययस्वरात् । हितशब्दोऽपि धाञो निष्ठायां 'दधातेर्हि:' ( ३०७६ ) इति हादेिशे प्रत्ययस्वरेणान्तोदात्तः । 'पुरोऽव्ययम्' (७६८) इति संज्ञायां 'कुगति' ( ७६१ ) इति समासे समासान्तोदात्ते 'तत्पुरुषे तुल्यार्थं ' ( ३७३६ ) इत्यव्ययपूर्वपदप्रकृतिस्वरे 'गतिकारकोपपदात्कृत् ' ( ३८७३ ) इति कृदुत्तरपदप्रकृति स्वरे थाथादिस्वरे च पूर्वपूर्वोपमर्देन प्राप्ते 'गतिरनन्वरः' ( ३७८३ ) इति पूर्वपदप्रकृतिस्वरः । पुरः शब्दोकारस्य संहितायां प्रचये प्राप्ते 'उदात्तस्वरितपरस्य स - तर: ' ( ३६६६ ) इत्यनुदात्ततरः । यज्ञस्य । नङः प्रत्ययस्वरः । विभक्तेः सुष्टवादनुदात्तत्वे स्वरितत्वम् । देवम् । पचाद्यच् । फिट्स्वरेण प्रत्ययस्वरेण वान्तोदात्तः । ऋत्विक्शब्दः कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः । होतृशब्दस्तु
रिति प्रातिशाख्येन ळः । यज्ञस्येति । 'यजयाच-' इति यजेर्नङ् विभक्तेः सुप्त्वा दनुदात्तत्वे स्वरितत्वमिति । स्वरितत्वमिति । स्वरितो वानुदात्त इत्यनेन ।
C
तदाधिकारपाठेन ? तेन पदकालेऽपि 'ईळे' इत्यादीनां निघातः, 'श्रमाविष्णू' इत्यादाववहे श्रानङादयः, पदविभागे च वस्नसादयः सिद्धयन्ति । अशक्त्यादिना कालव्यवायेऽपि नसादयः । व्यवधानञ्च मात्राकालेन, न तदधिकेनेत्यादि निरूपितम् । संहिताधिकार स्थन्तु यणादिकं स्वरितप्रचयादिकञ्च नेति बोद्ध्यम् । नन्वेवं पुरः - हितमित्यवग्रहे हिशब्दस्य स्वरितत्वं बह्वचैः पठ्यमानं न सिद्ध्येत्, संहिताधिकारस्थत्वेन कालव्यवायेऽप्रवृत्तेरिति चेन्न, 'यथा सन्धीयमानानामनेकी भवतां स्वरः । उपदिष्टस्तथा विद्यादक्षराणामवग्रहे' इति प्रातिशाख्ये विशिष्य विधानात् । श्रनेकीभवतां = प्रश्लेषमाप्नुवतां पुनः सन्धीयमानानामेकीक्रियमाणानां यथा येन प्रकारेण स्वर उपदिष्टः शास्त्रे, तं स्वरमक्षराणामवप्रहेऽपि तथैव कुर्यादित्यर्थः । नन्वेवमुपगन्तवै श्रन्वेतवाउ इत्यादीनामवप्रह्ने उत्तरखण्डाद्यवर्णस्य प्रचयः स्यादिति चेन्न, 'पद्यादस्तु यदात्तानामसंहितवदुतरानू' इति विशेषवचनात् । पद्यं = पदार्थं युदात्तानां पदानामुत्तरान् पदार्थादीन् स्वरविधावसंहितवज्जानीयादित्यर्थः । एवं रत्नधातमम्, अललाभवन्तीरित्यादीनां क्रमकाले इतिशब्दोत्तरभागे प्रचयो न प्रवर्त्तते । 'परिग्रहे खनार्षान्तात्तेनैवै काक्षरीकृतात् । परेषां न्यासमाचारं व्यालिस्तौ चेत्स्वरौ परौ' इति वचनात् । परिग्रहो वेष्टक उच्यते । अनार्षशब्देन तथाभूत इतिकरणः, स च द्यक्षर श्रायुदात्तः पदाभ्यासस्य मध्ये वर्त्तमानः पूर्वपदान्तमादिना स्पृशति, द्वितीयपदादिमन्तिमेन स्पृशति