SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ ६२० ] सिद्धान्तकौमुदी। [स्वरसंचारयस्क्रियायुक्ताः प्रादयस्तं प्रत्येव गतिस्तत्र धातावेवोदात्तवति स्यात् प्रत्यये न स्यात् । उदात्तवति किम्-अपचति । इति तिङन्तस्वराः। स्वरसंचारप्रकारः। भय वैदिकवाक्येषु स्वरसंचारप्रकारः कथ्यते । अग्निमीळे इति प्रथमा ऋक् । तत्रापिशब्दोऽग्युत्पत्तिपते (फि.) 'फिषः' इत्यन्तोदात्त इति माधवः । वस्तुतस्तु घृतादित्वात् । व्युत्पत्तौ तु निस्प्रत्ययस्वरेण । भम् सुप्वादनुदात्तः । 'भमि पूर्वः' (१९४) इत्येकादेशस्तु 'एकादेश उदात्तेन' (३६५८) इत्युदात्तः । ईळे । 'तिकतिः ' (३६३५) इति निघातः । संहितायां 'उदात्तादनुदात्तस्य' प्रति गतित्वं तद्धटके तिङन्ते उदात्तवति परे इत्यर्थो जायते, तेन यत्प्रकरोतीत्यादौ धातोः शेषनिघातेनानुदात्तत्वेऽपि तिङन्तस्य उप्रत्ययस्वरेण मध्योदात्तत्वाद्गतेनिघातः सिद्ध इत्याहुः। प्रपचतीति। 'तितिकः' इति निघातः। इति सुबोधिन्यां तिङन्तस्वराः। ईळे इति । ईड स्तुतौ लडुत्तमैकवचनम् । इट टेरेत्वं द्वयोश्वास्य खरयो. रक्प्रत्ययान्ते मन्द्रशब्दे परे आडो निघातनिवृत्त्यर्थन्तदित्यत आह यत्क्रियेति । एवञ्च तिमहणाऽभावेऽपि गत्याक्षिप्तक्रियावाचकस्योदात्तवतीति विशेषणादपि तनिवृत्तिः सिद्धेति भावः। तत्र दोषमाह धातावेवेति । यस्य वाच्यरूपया क्रियया युक्तास्तं धातुं प्रत्येव गतित्वादिति भावः । एवञ्च 'यत् पचती'त्यादावेव स्यान तु 'यत् प्रकरोती'त्यादौ । तिग्रहणे तु सति यं धातुं प्रति गतित्वं तद्घटिते तिइन्ते परे इत्यर्थः सम्पद्यते इति न दोषः । अत्र तिशब्देन कियाप्रधानं लक्ष्यते । तेन 'उपपदमति'निति सूत्रस्थाऽस्मदुक्तरीत्या 'प्रपचतितरा'मित्यत्राऽसमासे उदात्तवत्यामन्ते गतेनिघातः सिद्धः । तिङन्तं तु तत्र नोदात्तम् , आम्स्वरेण शेषनिघातात् । ध्वनितश्चेदं भाष्ये । एते निघातास्तत्प्रतिषेधाश्च पदकाले विच्छय पाठेऽपि भवन्ति, संहिताधिकाराऽभावादित्याहुः । इति लघुशब्देन्दुशेखरे तिङन्तस्वराः। अथ स्वरसञ्चारप्रक्रिया । वस्तुतस्त्विति । 'इगन्तानाञ्च यषा'. मित्यस्य 'फिषः' इत्यपवादस्य सत्त्वादिति भावः। संहितायान्त्विति । 'तयो. विची'ति सूत्रस्थसंहिताग्रहणस्याऽऽशास्त्रसमाप्तेरधिकारात्, स्वरितविधेश्व तदन्तर्भावादिति भावः। अयमेव संहिताधिकारो ज्ञापयति-'एतदधिकारबहिर्भूतानां कालव्यवायेऽपि प्रवृत्तिः'। अन्यथाऽसंहितायां कालव्यवायादेव न भविष्यति, किं
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy