________________
प्रकरणम् ] सुबोधिनी-शेखरसहिता। [६१६ हरिभिर्याहि मयूररोममिः। ३६७८ तिङि चोदात्तवति । (=-१-७१) गतिरनुदात्तः यत्प्रपचति । तिमहणमुदात्तवतः परिमाणार्थम् । अन्यथा हि गतिः । तिङि। उदात्तवति तिङन्ते परे गतिनिहन्यते । 'निपाता श्रायुदात्ताः' इत्यस्यापवादः । यत्प्रपचतीति । 'निपातैयद्यदि-' इति निघातप्रतिषेधात्तिङन्तमुदात्तवत् । ननु तिमहणं व्यर्थम् । न च तिङन्ते यथा स्यात् मन्द्रशब्दे मा भूत् श्रामन्दरिन्द्र हरिभिर्याहेि' इति मन्द्रशब्दो रक्प्रत्ययान्तोन्तोदात्त इति वाच्यम् । 'यक्रियायुक्ताः प्रादयस्तं प्रत्येव गत्युपसर्गसंज्ञाः' इति वचनात् स्वसंबन्धिनमाक्षिः पतीति कियावाचिन्येवोदात्तवति भविष्यति । न च कृदन्तेऽतिप्रसङ्गः । तत्र कृत्स्वरथाथादिस्वरगतिस्वरेषु कृतेषु शेषनिघातेन गतिनिहन्यत एव । तस्मानार्थस्तिमहणेनेत्याशङ्कयाह तिङ्ग्रहणमिति । परिमाणमियत्ता। परिमाणार्थत्वमेव स्पष्टयति अन्यथा हीति । अक्रियमाणे तिङ्ग्रहणे धातुरेव क्रियावाचित्वाद्गतिसंज्ञानिमित्तमिति तत्रैवोदात्तवति निघातः स्याद् न प्रत्यये, तिङ्महणे कृते तु यं धातुं मन्द्ररिति । 'ते प्राग्धातोः' इत्यस्य प्रयोगनियमार्थमिदम् । प्रयोगनियमपक्षमभिप्रेत्यैव 'छन्दसि परेऽपि' 'व्यवहिताश्चे'त्यारब्धम् । यदा तु भाष्यरीत्या सज्ञानिवमार्थत्वमभिप्रेत्य तत्प्रत्याख्यायते तदा गताविति व्यर्थम् । आङो गतित्वाऽभावादेवाऽप्राप्तेः । मन्द्रशब्दस्तु रूढिशब्दत्वान्न क्रियावाची । आमन्द्ररित्यत्र न दोषः, अगतित्वात् । यत्कियायुक्तास्तं प्रति गतिसज्ञा । न चाऽत्राऽऽको मन्द्रं प्रति कियायोगः । किं तर्हि ? याहिशब्दं प्रतीति भाष्यस्याप्ययमेवार्थः-यक्रियान्वयस्तत्कियाव्यव. हितत्वान्न गतित्वम् , मन्द्रस्तु न क्रियावाचीति । यत्तु कैयटादयः-'ननु परनिमित्तानुपादाने यत्कियायुक्ता इति कथं लभ्यते ? उच्यते । पदस्येत्यधिकारात्पदविधित्वासमर्थपरिभाषोपस्थानादेतद्विशेषलाम' इति । तत्तुच्छम् । अस्मदुक्तरीत्या भाष्यस्य सामजस्यात् , एकार्थीभावे एव परिभाषाप्रतश्च, युष्मदस्मदादेशनिघातविधौ परिभाषाऽप्रवृत्तेः समर्थसूत्रे भाष्ये उक्तत्वाच्च । न च मन्दादिकरणकेन्द्रकर्तृकं यानमाग विशेष्यते इति समुदाय क्रियाविशेषवाचिनं प्रति गतित्वमस्त्येव । अत एवाऽभ्युद्धरतीत्यादावभेर्गतित्वमिति वाच्यम् , धातूपसर्गयोः संबन्धस्यान्तरङ्गत्वेन साधनान्वयात्पूर्वमेव तदन्वयः । अत एव 'उपास्यते गुरुः' इत्यादेः सकर्मकत्वमिति भाष्य एव स्पष्टम् । तिङि चो। 'निपाता आद्युदात्ताः' इत्यस्यापवादोऽयम् । अनुपसर्गस्यापि गतेर्धात्वव्यवहितस्य सत्त्वात् । उदाहरणे 'निपातैर्यद्यदीति निघातप्रतिषेधादुदात्तत्वं तिङन्तस्य । 'यच्छुक्लीकरोती'त्यत्र च्वेश्चित्त्वेऽपि चित्स्वरो येननाप्राप्तिन्यायेन निपातायु. दात्तत्वमेव बाधते न त्वेनमिति अत्र शुक्लीशब्दस्य निघातः । नन्वामन्द्ररित्यत्र