________________
६०८ ]
सिद्धान्तकौमुदी। [तिङन्तस्वरइति सुष्ठु मन्यसे । 'गत्यर्थनोटा लुट' (३६५८) इत्यनेनैव सिद्ध नियमार्थोऽ. यमारम्भः । एहि मन्ये युक्ने प्रहास एव नान्यत्र । एहि मन्यसे श्रोदनं भोचये। ३६५४ जात्वपूर्वम् । (८-१-४७ ) अविद्यमानपूर्व यजातु तेन युक्तं नानुदात्तम् । जानु भोचपसे। अपूर्व किम्-कटं जातु करिष्यसि । ३६५५ किंवृत्तं च चिदुत्तरम् । (८-१-४८) अविद्यमानपूर्व चिदुत्तरं यस्किवृत्तं तेन युक्तं तिङन्तं नानुदात्तम् । विभक्स्यन्तं डतरडतमान्तं किमो रूप किंवृत्तम् । वृत्तिकारमतरीत्या प्रत्युदाहरणम् । तन्मते उत्तमोपादानं स्यात्तन्त्रत्वात् । भाष्ये तु एहि मन्ये रथेन यास्यसीति प्रत्युदाहृतम् । तत्रायमर्थः-वं रथन यास्य सी यहं मन्य एहीति । गत्यर्थलोटा लडित्यनेनैव सिद्ध इति । श्रापर्वादिणो लोट् सिपो हिः। अत्र एहीत्य स्य गत्यर्थत्वाद् गत्यर्थलोटेति सिद्धमित्यर्थः। एहीत्यत्र आङः परत्वादिहीत्यत्र निघातः । मन्ये इति । मन ज्ञाने अनुदात्तेत् । श्यन्नन्तत्वादाधु. दात्तत्वम् । 'तास्यनुदात्तेत्-' इति अदुपदेशात्परत्वादिडनुदात्तः । जात्व। अपूर्व. मित्येतज्जातुशब्दस्यैव विशेषणं न तिङन्तस्य । 'आहो उताहो' इति सूत्रे अनन्तरप्रहणाज्ज्ञापकात् । अन्यथा तत्राप्यपूर्वमित्यनुवृत्तेरेव केवलतिङन्त स्यानन्तयं लभ्यते इति किं तेन । ननु शेषे विभाषा वक्ष्यति । सत्र शेष प्रक्लप्त्यर्थं तत्स्यात् शेषे विभाषा कश्च शेषः सान्तरं शेष इति अन्तरेणाप्यनन्तरमहणं प्रक्लमः शेषः कथम् । अपूर्वमिति प्रकृतं सपूर्वः शेष इति तदेतत्सकलमभित्याह अविद्यमानपूर्व यजात्विति । जातु भोक्ष्यस इति । अदुपदेशात्परत्वात्से इत्यस्य निघातः । मध्योदात्तं पदम् जातुशब्दो निपातत्वादायुदात्तः। कटं जातु करिष्यसीति कटशब्दः फिट्त्वादन्तोदातः । किंवृत्तम् । वृत्तमित्यधिकरणे क्तः। किमो वृत्तं किंवृत्तम् । 'अधिकरणवाविनश्च' इति कर्तरि षष्ठी। 'अधिकरणवाचिना च' इति समासनिषेधे प्राप्तेऽस्मादेव निपातनात्समासः। इह 'जात्वपूर्वम्' इत्यतोऽपूर्वमिति वर्तते । तयाचष्टे अविद्यमानपूर्वमिति । यदि किंशब्दो वर्तते तत्सर्व गृयते तर्हि किमोयः किंतरा. 'प्रहासे चेति सूत्रविहितलडनुवाद एव । धातुमानं विवक्षितमिति भावः । इदेन वृत्तौ स्पष्टम् । भाष्यातु उत्तमोऽपि विवक्षितः। 'एहि मन्ये रथेन यास्यसीति प्रत्युदाहरणम् । एहि त्वं रथेन यास्यसीत्यहं मन्ये इत्यर्थ इति प्रतीयते । गत्यर्थेति। एहीत्यस्य गत्यर्थत्वादिति भावः । जात्वपूर्वम् । तृतीयास्थाने व्यत्ययेन प्रथमा उभयत्र । अविद्यमानपूर्वमिति जातुविशेषणं, न तिङन्तस्य, 'आहोउलाहो' सूत्रे. ऽनन्तरग्रहणादिति वक्ष्यते। किंवृत्तञ्च चि। चिदुत्तरमिति । बहुव्रीहिःकिंवृत्तविशेषणम् । प्रथमा पूर्ववत् । पूर्वसूत्रादपूर्वमिति वर्तते, तेन 'देवदत्तः किञ्चि