________________
प्रकरणम् ] सुबोधिनी-शेखरसाहता। [६०७ किम्-साधनप्रश्ने मा भूत् । किं भक्तं पचतापूपान्वा । प्रश्ने किम्-किं पठति । क्षेपोऽयम् । भनुपसर्ग किम् । किं प्रपचति उत प्रकरोति । अप्रतिषिद्धं किम्किं द्विजो न पचति । ३६५२ लोपे विभाषा (८-१-४५)। किमोऽप्रयोगे उक्कं वा । देवदत्तः पचत्याहोस्वित्पठति । ३६५३ एहि मन्ये प्रहासे लूट (८-१-४६) । एहि मन्ये इत्यनेन युक्तं लुडन्तं नानुदात्तं क्रीडायाम् । एहि मन्ये भनं मोक्ष्यसे, भुक्न तस्वतिथिभिः । प्रहासे किम्-एहि मन्यसे श्रोदनं भोषये पूर्व किंयुक्तं तन्न निहन्यते उत्तरं तु न किंयुक्तमिति निहन्यत एवेति । अन्ये तु यद्य. प्येकस्याख्यातस्य समीपे किंशब्दः श्रूयते, तथापि सर्वस्य संशयविषयस्य तेन योग इति उभयत्रापि निषेधेन भाव्यमिति । अत्र हरदत्तः-ये त्वाहुः पूर्व किंयुक्तमिति, ते मन्यन्ते-अस्तु द्वयोः संशयविषयत्वं किंशब्देन तु श्रुतक्रियाविषय एव प्रश्नो द्योत्यते। क्रियान्तरविषयस्तु प्रश्नः श्राहोस्विदित्यनेन । क्रियाप्रश्न इति चोच्यते । तस्मात्तस्यैव निघातप्रतिषेध इति । प्रश्न किम्। किं देवदत्तः पठति । क्षेप किंशब्दः । क्वचित्पुस्तके किमधीयत इति प्रत्युदाहरणं दृश्यते तन्नादर्तव्यं सोपसृष्टत्वात् । लोपे। किंक्रियाप्रश्न-' इति सूत्रमनुवर्तते । तथा चायमर्थ:--क्रियाप्रश्न यः किंशब्दः तस्य लोपे तदर्थेन युक्तमनुपसर्गमप्रतिषिद्धं च तिङन्तं वानुदात्तं स्यात् । सूत्रेण किमो लोपस्याविधानादर्थप्रकरणादिना गम्यमानार्थत्वादप्रयोग एव लोपो विवक्षितः। देवदत्तः पचति आहोस्वित्पठतीति । अत्र पक्षे निघातः। पक्षे धातुखरेणाद्युदात्तता। किंशब्दाप्रयोगादप्राप्तविभाषेयम् । यद्वा तस्याप्रयोगेऽपि अर्थन योगात्प्राप्तविभाषा पूर्वसूत्रस्थानि प्रत्युदाहरणानि किशब्दं त्यक्त्वात्र योजनीयानि । एहि । एहि मन्य इत्यनेन युक्तमिति । समुदायाभिप्रायमेकवचनम् । अन्यथा श्राख्याते द्वे, प्राङ् चापर इति बहुवचनप्रसङ्गः । एहि मन्ये भक्तं भोक्ष्यस इति । मन्यसे भोक्ष्ये इत्यर्थे 'प्रहासे च मन्योपपदे-' इत्यादिना मन्ये भोक्ष्यस इति पुरुषव्यत्ययः । इदं च
आहोस्विदपूपानिति । 'प्रश्ने किम् ? किंपठतीति पाठः। 'किमधीते' इत्यपपाठः, उपसृष्टत्वात् । किं द्विज इति । द्विजस्याऽपचनं हि प्रतिषिद्धम् । इदन्तु युक्तमुदा. हरणं-किम् संन्यासी पचति । केचित्तु प्रतिषिद्ध प्रतिषेधस्तदप्रतियोग्यर्थकं तिङन्त. मित्यर्थः, तदा मूलोक्तमेवोदाहरणमित्याहुः । लोपे वि। किमर्थयोगेऽपि किमोऽप्रयोगे इत्यर्थः । अर्थाध्याहारवाद इदम् । पक्षे निघातः । पक्षे श्राद्युदात्तम्-पचतीत्यादि । किंशब्दाऽप्रयोगादप्राप्तविभाषेयम् । केचित्तु तदर्थयोगस्य सत्त्वात्प्राप्तविभाषेवेत्याहुः । 'क्रियाप्रश्ने' इत्यादि सर्वमिहाप्यनुवर्तते । एहि मन्ये प्रहास। उदाहरणे 'प्रहासे च मन्योपपदे' इति पुरुषव्यत्ययः । एहि मन्यसे इति। सूत्रे 'एहि मन्ये' इति