SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ ६०६] सिद्धान्तकौमुदी। [तिङन्तस्वरअधीष्व माणवक पुरा विद्योतते विद्युत् । निकटागामिन्यत्र पुराशब्दः । परी. प्सायां किम्-न तेन स्म पुराधीयते । चिरातीतेऽत्र पुरा । ३६५० नन्वित्य. नुज्ञेषणायाम् (८-१-४३)। नन्विस्यनेन युक्तं तिङन्तं नानुदात्तमनुज्ञा. प्रार्थनायाम् । ननु गच्छामि भोः । अनुजानीहि मां गच्छन्तमित्यर्थः । अन्विति किम्-अकार्षीः कटं स्वम् । ननु करोमि । पृष्टप्रतिवचनमेतत् । ३६५१ किं क्रियाप्रश्नेऽनुपसर्गमप्रतिषिद्धम् (८-१-४४) । क्रियाप्रश्भे वर्तमानेन किंशब्देन युक्तं विहन्तं नानुदात्तम् । किं द्विजः पचत्याहोस्विद्गच्छति । क्रियेति इति लसार्वधातुकनिघातः । न तेन स्म पुराधीयत इति । 'लट् स्म' इति भूते लट् । अत्र भूतस्याध्ययनस्य चिरकालप्रवृत्तत्वं गम्यते न त्वरा । नन्वि । किंचित्कर्तुं स्वयमेवोद्यतस्य एवं क्रियतामित्यभ्युपगमोऽनुज्ञा । तस्याः एषणा प्रार्थनाऽ. नुज्ञेषणा। अनुज्ञाप्रार्थनेत्यर्थः । तदाह अनुज्ञाप्रार्थनायामिति। उदाहरणे वर्तमानसामीप्ये लट् । प्रत्युदाहरणे 'ननौ पृष्टप्रतिवचने' इति भूते लट् । अन्विति किमिति । अनुज्ञेषणायामिति किमित्यर्थः । 'अङ्गाऽप्रातिलोम्ये' इत्यादिवदितिकरणं विनापि सिद्ध एकनिपातोऽयमिति प्रदर्शनार्थमितिशब्दः । अन्यथा द्वयोनिपातयोर्ग्रहणं संभाव्येत । किं क्रिया। अप्रतिषिद्धमिति । अप्रतिषिद्धार्थमित्यर्थः । किं द्विजः पचति आहोस्विद्गच्छतीति । आहोखिदेको निपात आद्युदात्तः । अत्र केचित् पुरा च । परीप्सा त्वरा । निकटेति । विद्योतनादावध्ययनं प्रतिषिद्धमतस्तदुप. न्यासेन त्वरितमधीष्वेति गम्यते । पक्षे योतते इत्यायुदात्तः । पुराशब्दोऽत्र निपात एव, पूर्वोत्तरसाहचर्यात् । परीप्सेत्यस्य प्रत्युदाहरणमाह न तेन स्मेति । 'लट् स्मे' इति भूते लट् । भूतस्याऽध्ययनस्य चिरकालप्रवृत्तत्वं गम्यते न त्वरा । नन्वि. त्यनुज्ञे । किंचित्कर्तुमुद्यतस्यैवं क्रियतामित्यभ्युपगमाऽनुशा, तस्याः प्रार्थना अनु. क्षेषणा । ननु गच्छामि भोरित्युदाहरणे वर्तमानसामीप्ये लट् । गमनं प्रति मामाज्ञापयेति गम्यते । पृष्टप्रतिवचनाऽभावात् 'ननौ पृष्टप्रतिवचने' इत्यस्य न प्राप्तिः। नन्वित्यस्यैकनिपातत्वं ज्ञापयितुमिति शब्दः सूत्रे। किक्रियाप्रश्नेऽनुप । 'कि' मिति लुप्ततृतीयान्तम् । क्रियाप्रश्न इति किमो विशेषणम् , अनुपसर्गमित्यादि तिगे विशेषणम् , अप्रतिषिद्धमित्यप्रतिषिद्धार्थकं तिङन्तविशेषणम् । 'किम् देवदत्तः पचति आहोस्वित्पठती'त्यादावुभयोः संशयविषयत्वादुभयोरपि किमा युक्तत्वेन निघात. निषेध इति केचित् । हरदत्तम्तभयोः संशयविषयत्वेऽपि किमशब्देन स्वसन्निहितक्रियाविषय एव प्रश्नो द्योत्यते, क्रियान्तरविषयस्त्वाहोस्विदित्यनेन, तस्मात्तस्यैव निघातप्रतिषेध इत्याह । क्रियाप्रश्ने किम् ? कारकपत्रे मा भूत्-किम् भक्त पचति
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy