SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सुबोधिनी शेखरसहिता। [६०५ यावदेवदत्तः प्रपचति शोभनम् । ३६४६ तुपश्यपश्यताऽहैः पूजायाम् । (८-१-३६) । एभियुकं तिङन्तं न निहन्यते पूजायाम् । श्रादह स्वधामनु पुनर्गर्भस्वमेरिरे । ३६४७ अहो च (८-१-४०)। एतद्योगे नानुदात्तं पूजायाम् । अहो देवदत्तः पचति शोभनम् । ३६४८ शेषे विभाषा (८-१-४१) महो इत्यनेन युक्तं तिङन्तं वानुदात्तं पूजायाम् । अहो कटं करिष्यति । ३६४६ पुरा च परीप्सायाम् (८-१-४२) । पुरेत्यनेन युक्रं वानुदात्तं स्वरायाम् । अनन्तरमित्येवेति । तच्चानन्तयं सोपसर्गस्य न तिङन्तमात्रस्य । प्रपचतीति । प्रशब्द आधुदात्तः । तुपश्य। तुप्रभृतीनि पूजाविषयाणि । उदाहरणानि तु माणवको भुङ्क्ते पश्य माणवको भुङ्क्ते । माणवकस्तु भुक्त इति श्राश्चर्ये तुशब्द इति भोजनस्य पूजा गम्यते । एवमन्यत्रापि । पूजायां किम् । पश्य मृगो धावति । तत्त्वकथनमेतत् । ननु 'पूजायां नानन्तरम्' इत्यतः पूजायामिति वर्तमाने पूजाग्रहणं व्यर्थमिति चेन्मैवम् । पूजाग्रहणं निघातप्रतिषेधार्थम् । तद्धि पूजाग्रहणं प्रतिषेधन संबद्धम् । ततश्च तदनुवत्ता विहापि न लुडित्यादिके विषये प्रतिषेधस्य प्रतिषेधः स्यात् , मा भूदेवं निघातस्यैव यथा स्यादित्येतदर्थ पूजाग्रहणम् । किं चानन्तरमित्येवं तदभूत् इह त्वविशेषेणेष्यते । अहो च । अहो देवदत्तः पचति शोभनमित्युदाहरणम् । पृथग्योगकरणमुत्तरार्थम् । उत्तरो अहोयोग एव यथा स्यात्तुप्रमृतिभिर्योगो मा भूदिति । शेषे । पूर्व पूजायामित्युक्त्वात्ततोऽन्यः शेष इत्याह पूजायामिति। अहो कटं करिष्यतीति । पक्षेऽस्य प्रत्ययखरः। अनाश्चर्यभूतमेव वस्तु असूयया आश्चर्य. वरप्रतिपाद्यते न पूजा । शेषप्रहणं स्पष्टार्थम् । योगविभागसामर्थ्यादिति । 'यावत्पुरा-' इति भविष्यति लट । विद्योतनादावध्ययनं धर्मशास्त्रप्रतिषिद्धम् । अतस्तदुपन्यासेन त्वरितमधीष्वेति गम्यते । पक्षे द्योतत इति धातुस्वरेणायुदात्तम्। 'तास्यनुदात्त-' योग्यतादिषु । भ्यामिति तृतीया । तु पश्य । पूजायामिति वर्तमाने पुनः पूजाग्रहण. मनन्तरग्रहणस्य, निघातनिषेधस्य चानुवृत्तिनिवृत्त्यर्थम् । निषेधाऽनुवृत्तौ हि 'निपातैयद्यदीत्यस्य प्रतिषेधः सम्भाव्येत । पूजायां किम ? पश्य मृगो धावति । तत्त्वकथनमेतत् । अहेत्यस्योदाहरणमाह प्रादहेति । त्वादिनान्तु 'तु माणवको भुत शोभन'मित्यागृह्यम् । अहो च । पृथग्योगकरणमुत्तरार्थम् । अहो देवदत्तः करोति शोभनम् । अत्रापि पूजायामित्येव । शेषे विभाषा। पूर्व पूजायामित्युक्तेर पूजा शेषः । अहो कटमिति । पक्षे स्यप्रत्ययस्वरः । अनाश्चर्यभूतमेव वस्तु असूयता आश्चर्यवत्प्रति. पाद्यते, न पूजा । शेषग्रहणं स्पष्टार्थम् । पूर्वत्र चानुकृष्टत्वादेव पूजायामित्यस्य निवृत्तेः, योगविभागसामर्थ्याच्च । तेन पूजायां नित्यम् , तदभावे विकल्प इति व्यवस्थोपपत्तेः ।
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy