________________
६०४]
सिद्धान्तकौमुदी। [तिङन्तस्वरसाकाङ्क्षमनेकमपि नानुदात्तम् । अनृतं हि मत्तो वदति पाप्मा चैनं युनाति । तिङन्तद्वयमपि न निहन्यते । ३६४३ यावद्यथाभ्याम् (८-१-३६) ।
आभ्यां युक्तं तिङन्तं नानुदात्तम् । यथा चिस्करवमावतम् । ३६४४ पूजायां नानन्तरम् (८-१-३७)। यावद्यथाभ्यां युक्तमनन्तरं तिङन्तं पूजायां नानुदात्तम् । यावत्पचति शोभनम् । यथा पचति शोभनम् । पूजायां किम्यावद्भुते । अनन्तरं किम्-यावद्देवदत्तः पचति शोभनम् । पूर्वेणात्र निघातः प्रतिषिध्यते । ३६४५ उपसर्गव्यपेतं च (८-१-३८)। पूर्वेणानन्तरमित्यु. क्रम् । उपसर्गन्यवधानार्थ वचनम् । यावत्प्रपचति शोभनम् । अनन्तरमित्येव । अनृतं हीति । हिर्यत इत्यर्थे । यस्मादयं मत्तोऽनृतं वदति ततः पाप्मा। पापमेनं युनाति अनृतवदनदोषेण युज्यत इति तात्पर्थिः । एकस्योदाहरणम् । अग्निर्हि पूर्वमुदजयत्तमिन्द्रोऽनुदजयत् । अत्र एकमजयदित्यायुदात्तम् । परं निहतम् । अत्र हेतुहेतुमद्भावस्य द्योतको हिरित्यनेकमपि तिङन्तं हियुक्त भवति। अत्र पूर्वेण सर्वस्य निघातप्रतिषेधे प्राप्ते कचिदनेकस्य क्वचिदेकस्य यथा स्यादिति वचनम् । तत्र छन्दसि दृष्टानुविधानाधथाप्रयोगं व्यवस्था। यावद्यथा। इयं तृतीया न पञ्चमीत्याह आभ्यां युक्तमिति । तेन परभूतयोरपि भवति । देवदत्तः पचति यावदिति यावच्छब्दो निपातश्चानिपातश्च गृह्यते 'निपातर्यद्यदि' इत्यत्र ज्ञापितत्वात् । प्रायः साकल्ये, द्वितीयः परिमाणोपाधिको वतुप्रत्ययान्तः । यथाशब्दो योग्यतादिषु । आवतमिति । अवतेर्लोणमध्यमपुरुषद्विवचनम्। यावच्छन्दोदाहरणं तु यावद् भुक्ते देवदत्तः । पति यावदिति । 'यावत्स्तोतृभ्योऽरदो गृणानाः' इति रद विलेखने लङि सिपि अट अटस्वरेणाद्युदात्तः । पूजायाम् । नानुदात्तमिति । अनुदात्त एव भवतीत्यर्थः । यावद्देवदत्त इति । पूर्वेणात्र निघातप्रतिषेधो व्यवाये यदि भवति उपसर्गेणैवेति नियमादत्रातिप्रसङ्गाभावेऽनन्तरग्रहणं शक्यमकर्तुम् । उपसर्ग। यावद्यथाभ्यां युक्तमनन्तरमुपसर्गेण व्यवहितं तिचन्तं पूजायां विषये नानुदात्तं स्यात् । एकमपि । अनृतं हीति । हिर्यत इत्यर्थे । यतोऽयं मत्तोऽनृतं वदति अतः पाप्मा= पाप चैनं न युनाति-न व्याप्नोतीत्यर्थः । अनृतवदनदोषेण न युज्यत इत्यर्थः । युञ् बन्धने इत्यस्य रूपं-युनातीति । अनिर्हि पूर्वमुदजयत्तमिन्द्रोऽनूदजयत् । अत्रैकमाधु. दात्तमपर निहतम् । अत्र हेतुहेतुमद्भावद्योतको हिरित्यनेकमपि तिङन्तं हियुक्ताम् । तत्र पूर्वेण सर्वस्य निघातप्रतिषेधे प्राप्ते क्वचिदेकस्य, क्वचिदनेकस्येत्येतदर्थमिदम् । छन्दसि दृष्टानुविधानाद्यथा प्रयोग व्यवस्था। यावद्यथा । यावदिति निपाताऽनिपात. योरपि ग्रहणमित्युक्तम् । आद्यः साकल्ये, द्वितीयः परिमाणोपाधिको वतुबन्तः । यथा