________________
६०२] सिद्धान्तकौमुदी। [तिङन्तस्वरमासन् । प्रचित्तिमिश्चकृमा कचित् । पुत्रासो यत्रं पितरो भवन्ति । ३६३८ नह प्रत्यारम्भे। (८-१-३१ ) नहेस्यनेन युक्तं तिङन्तं नानुदात्तम् । प्रतिषेधयुक्त प्रारम्भः प्रत्यारम्भः । नह भोच्यसे । प्रत्यारम्भे किम्-नह वैतस्मिपादनार्थम् । यदग्ने स्यामिति । अस्तेलिङि अम् । चक्रमा कञ्चिदिति । चकृमति लिट् । प्रत्ययस्वरेणान्तोदात्तम् । कच्चिदयं निपातसमुदायः पदकाले कत् चिदिति विच्छिद्य पाठात् । निपातः किम् । यत्कूजति शकटम् । एतीति यत् । इणः शतरि रूपम् 'इणो यण' इति यण् । ननु प्रतिपदोक्तत्वात् यदादिभिः साहचर्याच निपातस्यैव यच्छब्दस्य ग्रहणं स्यादिति चेत्सत्यम्। एतदेव ज्ञापयति अस्मिन्प्रकरणे नेदमुभयं व्यवस्थापकमिति । तेन 'यावद्यथाभ्याम्' इत्यत्र 'यत्तदेतेभ्यः परिमाणे वतुप्' इति व्युत्पादितस्यापि लाक्षणिकसंनिपातस्यापि प्रहणं भवति । यावत् स्तोत. भ्योऽरदो गृणानाः' इति । अत्रादर इत्यत्स्वरेरणादात्तम् । युक्त ग्रहणं किम् । अन्याविते मा भूत् । 'यत्र क च ते मनो यज्ञं दधत उत्तरम्' इह यत्रेयस्योत्तरमित्यनेन साक्षात्संबन्धः । दध धारणे । अनुदात्तेत् । नह प्रत्या। नहशब्दो निपातसमुदायो यदिचेचणः । हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः । कश्चित्प्रश्ने, निषेधे नेत् , प्रशंसायां कुवित्स्मृतः । नेनिषेधे, यत्रेत्याधारे। हन्त करोति । 'हन्ताऽहं पृथिवीमिमा निदधानि हवे हवा'-इत्यादौ दधानीत्यादेनिघातश्छान्दसः । एतेन 'हन्तो नु किमाससे' इत्यादिव्याख्यातम् । हन्तो इत्यखण्डो वा निपातो बोद्ध्यः । तथैव पदकारैः पाठात । 'नेदेवमायुनजन्नत्र देवाः' । युनजनिति युजेलेंटि रूपम् । अन्यश्चे. भाभिगच्छति । अत्र नवाभ्यां विच्छिद्य इच्छब्दस्य पदकाले पाठान्निपातसमुदायावेतौ। चणिति चेदर्थ णित् । अन्यत्र त्वणित् । इन्द्रश्च मृळयाति नः । इन्द्रश्चेदस्मान् सुखयेदित्यर्थः । कञ्चिदिति निपातसमुदायः प्रश्ने । यथा-चकृमा कचिदिति । यद्यप्यत्र एतैरेव परभूतोंगे नियमो नाऽन्यरित्यर्थक-'यद्धितुपर'मिति नियमानिषेधो न प्राप्नोति, तथापि छान्दसत्वेनाऽत्र नियमाऽप्रवृत्तिरित्याहः। निपातः किम् ? यत् कूजति शकटम् । इणः शतरि इणो यणि रूपम् । ननु प्रतिपदोकत्वात् , यथादिमिनिपातः साहचर्याच निपात एव ग्रहीष्यते ? सत्यम् । अत्र प्रकरणे क्वचिन्न्यायाऽप्रवृत्तिज्ञापनार्थत्वात् । तेन 'यावद्यथाभ्या'मिति सूत्रे वत्वन्तस्याऽव्ययस्य च यावच्छन्दस्य प्रहणमिति स्पष्टमाकर । युक्तग्रहणं किम् ? अन्यत्र साक्षादन्वितैरेतैः परम्परासंबन्धे मा भूदिति । यथा-'यत्र क्वच ते मनो दक्षं दधस उत्तरम्' । यत्रेत्यस्योत्तरमित्यनेन साक्षात् संबन्धः । दध धारणे । अनुदात्तेत् । नहप्र । नहेति निपातसमुदायो निषेधे वर्तते । प्रतिषेधयुक्त इति । पूर्व मुखेत्युक्ते कर्तव्यतयोपन्यस्तस्य भोजनादेरव.