________________
प्रकरणम्
1
सुबोधिनी-शेखरसहिता
[ ६०१
1
1
पापम् । कुश्लेति किम्-खनति गोत्रम् । समेत्य कूपम् । ३६३५ तिङ्ङतिङः । ( ६-१-२८) अतिङन्तात्पदात्परं तिङन्तं निहन्यते । श्रग्निमीळे । ३६३६ न लुट् । ( ८-१-२६ ) लुडन्तं न निहन्यते । श्वः कर्ता । श्वः कर्तारौ । ३६३७ निपातैर्यद्यदिहन्त कुविनेश्चश्च कश्चिद्यत्रयुक्तम् । ( ८-१-३०) एतैनिपातैर्युक्तं न निहन्यते । यद॑मे॒ स्याम॒हं त्वम् । युवा॒ यदीकृथः । कुविदङ्गः पीति । 'चनचिदिवगोत्रादितद्धिताम्रडितेष्वगतेः इत्यत्र । पचति पापमिति । पापमिति क्रियाविशेषणम् । खनति गोत्रम् । समेत्य कूपमिति । गोत्रं कुलं समुदितं भूत्वा कूपं खनतीत्यर्थः । तिङः । अनुदात्तं सर्वमिति वर्तते । तदाह निहन्यत इति । सर्वानुदात्तो निघात इति वैयाकरणानां व्यवहारः । अतिङ इति किम् पचति भवति । एककर्तृका पचिकिया भवतीत्यर्थः । नन्वतिङ्ग्रहणं व्यर्थं 'समानवाक्ये निघातयुष्मदस्मदादेशाः' इत्युक्तत्वात् । एकस्मिंश्च वाक्ये तिङन्तद्वयाभावादिति चेत्सत्यम् । सूत्रकारेण समानवाक्याविकारो न कृत इत्यतिग्रहणमकारि । भाष्ये तु श्वतिङ्ङ्ग्रहणं प्रत्याख्यातम् । न लुट् । इत आरभ्य निषेधसूत्राणि । श्वः कर्ता । श्वःकर्ताराविति । तासेः परस्य लसार्वधातुकस्यानुदात्तत्वे कृते तासिरुदात्तः । एकवचने टिलोपे कृते उदात्तनिवृत्तिस्वरेण डा उदात्तः । निपातैः । यदित्यादीनां यत्रेत्यन्तानां द्वन्द्वे तृतीयायाः सौत्रो लुक, न तु युक्तशब्देन समासः । निपातैरिति विशेषणस्यानन्वयापत्तेस्तदाह एतैर्निपातैरिति । यद् यदि हन्त कुवित् नेत् चेत् चण् कच्चित् यत्र एतैरित्यर्थः । ' यद्यदार्थे च हेतौ च विचारे यदि चेचणः । दन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः । कञ्चित्प्रश्ने नेत् निषेधे प्रशंसायां कुवित्स्मृतम् । यत्रेत्याधारे तत्र मूले कुविदुदाहृतः । अन्येऽभ्यूयाः । तत्रग्रहणं साक्षात्संबन्धप्रतिखनतीति । गोत्रं समेत्य कूपङ्खनतीत्यर्थः । तिङतिङः । 'पदस्य' 'पदातू' 'अनुदात्तं सर्वमपादादा' वित्याधिकारादत्र प्रकरणे निहन्यते = सर्वानुदात्तं क्रियते इत्यर्थः । यथाऽत्र सर्वस्यानुदात्तता तथा निरूपितं युष्मदस्मत्प्रकरणे । 'उदात्तस्वरितगुणविशिष्टमेव निहन्यते नान्य' दिति 'स्वरितो वाऽनुदात्ते' इति सूत्रस्थ भाष्यस्वरसः । प्रतिङ इति किम् ? पचति भवति । पाको भवतीत्यर्थः । वस्तुतोऽतिग्रहं व्यर्थम् । समानवाक्याधिकारस्य वार्त्तिको क्लस्यावश्यकत्वात् । 'एकति हि तत्र वाक्य' मिति भाष्ये स्पष्टम् । पादादौ किम् ? तन्त्वा वाजेषु वाजिनं वाजयामः शतक्रतो । निपातै
1
द्यदि । यदादियत्रान्तानां द्वन्द्वे तृतीयायाः सौत्रो लुक्, न तु युक्तशब्देन समासः, निपातैरिति विशेषणस्याऽनन्वयापतेः । यदादयो निपातत्वादायुदात्ताः । सर्वनाम्नो यच्छब्दस्य न तु ग्रहणम्, यत्रययोः पृथग्ग्रहणात् । यद्यदार्थे च हेतौ च, विचारे