________________
६०० ]
समासस्वर
सिद्धान्तकौमुदी।
अथ तिउन्तस्वराः। ३६३४ तिङो गोत्रादीनि कुत्सनाभीण्ययोः। (--१-२७) तिहन्तात्पदावोबादीन्यनुदात्तान्येतयोः । पचति गोत्रम् । पचतिपचति गोत्रम् । एवं प्रवचनप्रहसनप्रकथनप्रत्यायनादयः । कुत्सनाभीचण्यग्रहणं पाठविशेषणम्। तेनान्यत्रापि गोत्रादिग्रहणे कुत्सनादावेव कार्य शेयम् । गोत्रादीनि किम्-पचति
तिडो । पचति गोत्रमिति । गोत्रं स्वकुलं पीडयतीत्यर्थः । एवं हि कुत्सा भवति । अाभीक्ष्ण्ये उदाहरणमाह पचतिपचति गोत्रमिति । अनेकार्थत्वास्पचिः करोत्यर्थ वर्तते। विवाहादौ गोत्रं पुनः पुनः सुखोकरोतीत्यर्थः । 'नित्य. वीप्सयोः' इति द्वित्वम् । ननु किं कुत्सनाभीक्ष्ण्यग्रहणं गोत्रादीनां पाठविशेषणम् , एतयोरर्थयोर्गोत्रादीनि भवन्ति । तानि च तिङः पराण्यनुदात्तानि भवन्ति, आहो. स्विदनुदात्तविशेषणं तिः पराणि गोत्रादीन्यनुदात्तानि भवन्त्येतयोरर्थयोरिति । अस्मिन्विचारे निर्णयमाह कुत्सनाभीदण्यग्रहणमिति । अयं चार्थो योगवि. भागाल्लभ्यते । तिडो गोत्रादीनीत्येको योगोऽनुदात्तविधानार्थः । कुत्सनाभीक्ष्ण्ययो. रिति द्वितीयो योगो गोत्रादीनीत्येव । परिभाषेयम् । इह शास्त्रे गोत्रादीनि कुत्सना. भीक्ष्ण्यविषयाण्येव प्राथाणि । तेन किं सिद्धं भवतीत्यत आह तेनेति । अन्यत्रा. 'व्यत्ययो बहुल'मित्यनेनैव सिद्धे 'परादि'रिति सूत्रम् ,'त्रिचक्रादीना छन्दस्यन्तोदात्तत्व'मिति वार्तिकं च न कार्यमित्यर्थः । यद्वा वाग्रहणेऽनुवर्तमाने बहुलग्रहणभेतदर्थलाभार्य कृतमित्यर्थः । यतो व्यत्ययो बहुलपदार्थ इति भावः। बहुलप्रहणादेव 'पुरः सो अस्तु' इत्यादौ शिखराऽप्रवृत्तिः, 'अस्थन्वन्तं यदनस्था बिभर्ती' यत्र 'भीह्री'त्यस्य च खरस्याऽप्रवृत्तिरित्यायुधम् । इति समासस्वराः।
अथ तिङन्तस्वराः । पचति गोत्रमिति । गोत्रंबकुलं पीड. यतीत्यर्थः । एवं हि कुत्सा भवति । पचतिपचति गोत्रमिति । अनेकार्थत्वात्करो। त्यर्थे पचिः । विवाहादौ गोत्रं पुनः पुनः सुखाकरोतीत्यर्थः । पाठविशेषणमिति । योगविभागः कार्यः । 'कुत्सनाऽऽभीक्ष्ण्ययो रिति । गोत्रादिनी ति वर्तते। परिभाषेयम्। यानि कुत्सनाभीक्ष्ण्यविषयाणि तान्येवात्र शास्त्रे गोत्रादीनोत्यर्थः । यत्र गोत्रादिपद. घटितवाक्यन कस्यचित् कुत्सा बोध्यते क्रियागतमाभीक्ष्ण्यं वा, तानीति यावत् । अन्यत्रापीति । 'चनचिदिवे'त्यादौ । गोत्र, ब्रुव, प्रवचन, प्रहसन, प्रयतन, पवन, यजन, प्रकथन, प्रत्यायन, प्रचक्षण, विचक्षण, प्रवचक्षण, स्वाध्याय, भूयिष्ठा वा नाम । नामेत्येतद्वा निहन्यते इत्यर्थोऽस्य । वृत् । तिः किम् ? कुत्सितगोत्रम् ।