SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सुबोधिनी - शेखरसहिता । [ ५६६ * परादिश्च परान्तश्च पूर्वान्तश्चापि दृश्यते । पूर्वादयश्च दृश्यन्ते व्यत्ययो बहुलं ततः । इति । परादिः । तुविजाता उ॑रु॒तयः॑ । परान्तः । नि येन मुष्टिस्य । यस्त्रिचक्रः । पूर्वान्तः । विश्वायुधेहि । इति समासस्वराः । बह्वर्थप्रदर्शनार्थम् । बहुलग्रहणस्यार्थ श्लोकेन दर्शयति पर दिश्चेति । उरुक्षयेति । उरूण क्षयो निवास इति विग्रहः । 'क्षयो निवासे' इति क्षयशब्द श्रायुदात्तः । 'समासस्य' इत्यन्तोदात्तं बाधित्वा कृदुत्तरपदप्रकृतिस्वरेणोत्तरपदायुदात्तत्वं प्राप्तं तत्थाथादिस्वरेण बाधितम् । श्रतो बाहुलकेनोत्तरपदाद्युदात्तत्वम् । एतच्च 'क्षि निवासगत्योः' इति धातोर्बाहुलकादधिकरणे 'एरच्' इति माधवेनोक्तम् । वस्तुतस्तु घप्रत्ययान्तः क्षयशब्द इति हरदत्तोक्तरीत्या थाथादिस्वरस्येहाप्राप्या कृदुत्तरपदप्रकृतिस्वरेणैव सिद्धम् । 'परादिश्च' इत्यस्योदाहरणं तु 'चोदयित्री सूनृतानाम्' इति बोध्यम् । ऊन परिहाणे । चुरादिष्वदन्तः णिच् क्विप् सुतरामूनयत्यप्रियमिति सून् तदृतं च सूनृतम् । ‘अयस्मयादीनि-' इति भत्वान्नलोपो न । मुष्टिहत्ययेति । मुष्टधा हननं मुष्टिहत्या 'द्दनस्त च' इति सुबन्ते उपपदे क्यप् । कृदुत्तरपदप्रकृतिस्वरोऽत्र प्राप्तः । त्रिचक्र इति । बहुव्रीहित्वात्पूर्वपदप्रकृतिस्वरः प्राप्तः । विश्वायुरिति । विश्वमायुर्यस्मिन्निति बहुव्रीहिः। विश्वशब्दः कन्प्रत्ययान्तः पूर्वपदप्रकृतिस्वरेणायुदात्तः प्राप्तः इति स्वरसुबोधिन्यां समासस्वर प्रकरणम् । श्छन्दसि । इदञ्च समासमात्रे । परादिश्चेत्यस्योदाहरणम् - उरुक्षया इति । उरूणां= बहूनां क्षयावित्यर्थः । क्षर्यशब्दः 'क्षयो निवासे' इत्यायुदात्तः । 'समासस्ये'त्यन्तो. दात्तत्वं बाधित्वा कृदुत्तरपदप्रकृतिस्वरेणोत्तरपदाद्युदात्तत्वं प्राप्तम्, तत् थाथादिस्वरेण बाधितमतो बाहुलकेनोत्तरपदाद्युदात्तत्वमिति वेदभाष्ये स्थितम् । इदच 'क्षिनिवास 'रित्यतो बाहुलकादधिकरणे एरजन्तः क्षयशब्द' इत्यभिप्रायेण । यदि तु क्षयशब्दो वाऽन्तस्तदा यायादिस्वराऽप्राप्स्या कृदुत्तरपदप्रकृतिस्वरेणैवेदं सिद्धम् । अस्योदाहरणन्तु 'चोदयित्री सूनृतानामिति । सूपूर्वादूनयतेः किप् । सुतरामूनयत्यप्रियमिति सून् = प्रियम्, तच्च ततश्चेति सुनृतम् । 'अयस्मयादीनी 'ति भवत्वान्नलोपो न । परान्तोदाहरणं - मुष्टिहत्ययेति । मुष्ट्या हननं मुष्टिहत्या । 'इनस्त चे 'ति क्यप् । कृदुत्तर पदप्रकृतिस्वरोऽत्र प्राप्तः । त्रिचक्रे - बहुव्रीहित्वात् पूर्वपदप्रकृतिस्वरे प्राप्ते पराऽन्त उदात्तः । पूर्वान्तत्वे - विश्वायुरिति । विश्वमायुर्यस्मिन्धने इति बहुव्रीहिरयम् । विश्वशब्दः क्वन्नन्तत्वादायुदात्तः । तस्य पूर्वपदप्रकृतिस्वरेणायुदात्तत्वं प्राप्तम् ।
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy