________________
५६८ ]
सिद्धान्तकौमुदी। [समासस्वरतथापि बहुव्रीहिकार्यस्वात्तदेकदेशत्वाच समासान्तोदात्तत्वं परे भवत्येव । द्विमूर्धः। त्रिमूर्धः । द्वित्रिभ्यां किम्-कल्याणमूर्धा । बहुव्रीही किम्-द्वयोद्धा द्विमूर्धा । ३६३२ सक्थं चाऽक्रान्तात् । (६-२-१९८) गौरसक्थः । श्वषणसक्थः । माकान्तास्किम्-चक्रसक्थः । समासान्तस्य षचश्चित्वाविस्य. मेवान्तोदात्तस्वं भवति । ३६३३ परादिश्छन्दसि बहुलम् । (६-२-१६६) छन्दसि परस्य सक्थशब्दस्यादिरुदात्तो वा । अजिसक्थमाल भेत । अत्र वार्तिकम् - तदेकदेशत्वाश्चेति । तस्य बहुव्रीहेरेकदेशः समासान्तस्तस्य भावस्तत्त्वं तस्मादिति स एवार्थः । तदेकदेशित्वादिति पाठे तु स बहुव्रीहिरेकदेशी अवयवी यस्य स तदेकदेशी समासान्तस्तद्भानस्तत्त्वं तस्मादिति स एवार्थः। तदेवं बहुव्रीहेः कार्यत्वात्तदेकदेशत्वाच समासान्तस्येति। यदा समासान्तः क्रियते तदाप्ययं विधिर्भवत्येव । द्विमूर्ध इति 'द्वित्रिभ्यो ष मूर्ध्नः' इति षः। कल्याणमूर्धेति । पूर्वपदप्रकृतिस्वर एवात्र भवति । कल्याणशब्दो 'लघावन्ते-' इत्यादिना मध्योदात्तः। सक्थं च । 'बहुव्रीही सक्थ्यक्ष्णोः-' इति षजन्तः सक्थशब्दः उत्तरपदमन्तोदात्तं वा स्यात् स चेत् ऋशब्दान्तात्परो न भवति । चित्त्वानित्यमन्तोदात्तत्वे प्राप्तेऽयं विकल्पः । गौरसक्थ इति। पक्षे पूर्वपदप्रकृतिस्वरः । 'शुक्रगौरयोरादिः' इति गौरस्यायन्तावुदात्तौ । तेनात्र त्रैस्वयम् । श्लक्षणसक्थ इति । 'कृत्यशूभ्यां नः' 'श्लिषेरच्चोपधायाः' इति श्लक्ष्णशब्दोऽन्तोदात्तः। षचश्चित्वादिति । एतेन चित्स्वरस्यापवादः । प्राप्तविभाषेयमिति दर्शयति परादिश्छन्दसि । परशब्देनात्र सक्थशब्द एव । तस्यैव पूर्वसूत्रे सन्निहितत्वात्तदाह परस्य सक्थशब्दस्येति । ननु तर्हि परप्रहणमनर्थकम् । प्रकृतो हि सक्थशब्दोऽनुवर्तते । नैतदस्ति । बहुव्रीहेरपि प्रकृतत्वात्त. स्ययुदात्तत्वं शपेत । 'विभाषोत्पुच्छ-' इत्यतो विभाषेति वर्तमाने बहुलप्रहणं यथान्यासे हि पूर्वोत्तरसाहचर्येण विभक्कयनिमित्तददादेशस्यैव प्रहणात् , शसादिनिमित्त. कस्य बहिरङ्गत्वेनाऽसिद्धत्वाच्च, भाष्योक्तप्रकृत्यन्तरत्वपक्षेऽत्र तदप्राप्तेश्च । एवञ्च बहुव्रीहिग्रहणमपि समासान्ताऽनित्यत्वे ज्ञापक'मित्याहुः । बहुव्रीहिकार्यत्वादिति। 'अस्य स्वरस्येति शेषः । तदेकदेशत्वाचेति । 'समासान्तस्येति शेषः । समासान्तोदात्तत्वम् एतत्सूत्रविहितम् । पक्ष भवत्येवेति । अत्र च सत्रे समासस्यैव कार्यित्वमिति सिद्धान्तः । सक्थश्वा । 'बहुव्रीहौ सक्थि' इति षजन्तः सक्थशब्दोऽ. न्तोदात्तो वा स्यात् , शब्दान्तात्परश्वेन भवतीत्यर्थः । चित्वानित्यमन्तोदात्तत्वे प्राप्ते विकल्पोऽयम् । 'नन्दुःसुभ्यः' इत्यजन्तस्तु न गृह्यते, व्याख्यानादित्याहुः । पक्षे पूर्वपदप्रकृतिस्वरः । 'शुक्लगौरयोरादि'रिति गौरः पर्यायेणाऽऽद्यन्तोदात्तः। परादि