SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ [ ५६७ प्रकरणम् ] सुबोधिनी-शखरसहिता यदा तु पुच्छमुदस्यति उत्पुच्छयते 'एरच्' (३२३१) उत्पुज्छस्तदा थाथादि. स्वरेण नित्यमन्तोदात्तस्वे प्राप्ते विकल्पोऽयम् । सेयमुभयत्र विभाषा । तत्पुरुषे किम्-उदस्तं पुच्छं येन स उत्पुच्छः । ३६३१ द्वित्रिभ्यां पाहन्मूर्धसु बहुबीही । (६-२-१९७) भाभ्यां परेश्वेष्वन्तोदात्तो वा । द्विपाचतुष्पाय रथाय । त्रिपादूर्वः । द्विदन् । त्रिमूर्धानं' सप्तरश्मिम् । मूर्धनित्यकृतसमासान्त एवं मूर्धशब्दः । तस्यैतत्प्रयोजनमसत्यपि समासान्ते अन्तोदात्तत्वं यथा स्यात् । एतदेव ज्ञापकमनित्यः समासान्तो भवतीति । यद्यपि च समासान्तः क्रियते वा स्यात्तत्पुरुषे । सेयमुभयत्र विभाषेति । आद्यायां तु व्युत्पत्तौ अव्ययपूर्वपदप्रकृतिस्वरेण बाधितत्वात्समासस्यान्तोदात्तत्वमप्राप्तम् । द्वितीयायां तु व्युत्पत्तो थाथादिखरेण नित्यमन्तोदात्तत्वं प्राप्तमिति कृत्वोभयत्र विभाषा। द्वित्रिभ्याम् । पादिति कृताकारलोपो गृह्यते । ददिति कृतददादेशो दन्तशब्दः । प्राण्यामिति । द्वित्रिभ्याम् । द्विपादिति । द्वौ पादौ यस्येति द्विपात् । 'संख्यासुपूर्वस्य' इति पादशब्द. स्याकारलोपः । द्विदनिति । 'वयसि दन्तस्य दतृ'। मूर्धनित्यकृतसमासान्त एव मूर्धन्शब्द इति । एतच्च मूखिति निर्देशादेवावसीयते । अन्यथा मूविति निर्देश्यं स्यात् । किमर्थं पुनरकृतसमासान्त एव निर्दिष्ट इत्यत आह तस्येति । यद्यकृतसमासान्तस्योपादानं तर्हि यदा समासान्तः क्रियते तदान प्राप्नोति तस्यशब्दां. न्तरत्वादित्यत श्राह यदापीति । इह हि बहुव्रीहिः कार्यित्वेनोपात्तो न मूर्धनशब्दः । सोरव । सोरुत्तरपदमन्तोदात्तं निन्दायां तत्पुरुषे इत्यर्थः । पूजायामेवेति । एवश्व कर्मप्रवचनीयत्वेन गतित्वाऽभावात्थाथादिस्वरोऽत्र मास्ति । निन्देति । अनर्थे उपस्थिते यः सुखायमान श्रास्ते तं प्रतीदं वाक्यमसूयया प्रयुज्यते। कुब्राह्मण इति । 'नष्कुनिपाताना मिति ईषदर्थे चरितार्थम् । विभाषोत्पु । तत्पुरुषरूपेऽपि उत्पुच्छ. शन्दे यदुत्तरपदन्तदन्तोदात्तं वेत्यर्थः । उत्कान्तः पुच्छादिति । अत्राऽव्ययपूर्वपदप्रकतिस्वरः प्राप्तः । यदा स्विति । केचित्त्वस्य लाक्षणिकत्वादत्र न प्रहणम् । किंचाऽयमुत्पुच्छो न तत्पुरुषः, किं तु तदवयवकः, नापि तद्धटकः पुच्छशब्द उत्तरपदमित्याहुः । मूर्धनित्यकृतेति । केचित्तु "श्रत एव बहुव्रीहिप्रहणं चरितार्थम् । अन्यथा मूढेष्वित्येव वदेत् । बहुव्रीहिभिनव समासान्तविरहादेव वारयिष्यते । न च द्विदन्त इति बहुव्रीही वयोवाचकत्वाऽभावात्रादेशाऽभावे शसादौ पद्दन-' इति ददादेशे प्रत्यर्थ बहुव्रीहिग्रहणस्यावश्यकत्वेन समासान्तनिर्देश गौरवम् । किं च समासान्तनिर्देशेऽत्र प्रवृत्तिर्न सुलभा । कृतसमासान्तसाहचर्येण दत्रादेशस्यैव प्रहणापत्तेः । अत एव द्वयोर्दन्ता इति विप्रहे 'द्विदतः पश्येत्यादौ षष्ठीतत्पुरुषे न प्रवृत्तिरिति वाच्यम् ,
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy