________________
५६६ ]
सिद्धान्तकौमुदी ।
[ समासस्वर
तिकारुकः । ३६२६ नेरनिधाने । ( ६-२-१६२ ) निधानमप्रकाशता ततोsम्यदनिधानं प्रकाशनमित्यर्थः । निमूलम् । न्यक्षम् । अनिधाने किम्-निहितो दण्डो निदण्डः । ३६२७ प्रतेरंश्वादयस्तत्पुरुषे । ( ६-२-११३) प्रतेः परेंऽश्वादयोऽन्तोदान्ताः । प्रतिगतोंऽशुः प्रत्यंशुः । प्रतिजनः । प्रतिराजा । समासान्तस्यानिश्यस्वास्च टच् । ३६२८ उपाद्वयजजिनमगौरादयः । ( ६-२१६४ ) उपास्परं यद् व्यकमजिनं चान्तोदात्तं तत्पुरुषे गौरादीन्वर्जयित्वा । उपदेवः । उपेन्द्रः । उपाजिनम् । भगौरादयः किम्- उपगौरः । उपतैषः । तत्पुरुषे किंम्-उपगतः सोमोsस्य स उपसोमः | ३६२१ सोरवक्षेपणे । ( ६ - २ - १६५ ) सुप्रत्यवसितः । सुरत्र पूजायामेव । वाक्यार्थस्वत्र निन्दा | असूयया तथाभिधानात् । सोः किम् कुब्राह्मणः । अवक्षेपणे किम् - सुहृषणम् । ३६३० विभाषोत्पुच्छे । ( ६-२-१६६ ) तत्पुरुषे । उत्क्रान्तः पुच्छादुरपुच्छः । प्राप्नोति गार्ग्यशब्दस्याकृदन्तत्वात् । तस्मादव्याप्त्यतिव्याप्तिपरिहारार्थमकृत्पदे इत्येतदपनीय धातुलोप इति वक्तव्यमित्यर्थः । नेरनि । नीशब्दादुत्तरपदमन्तोदात्तं स्यादनिधानेऽर्थे । निमूलमिति । निर्गतं मूलमस्य, निर्गतं वा मूलं निर्मूलम् । निदण्ड इति । निशब्दो निधानार्थे वर्तते । कथं पुनर्निशब्दस्यायमर्थ इति चेच्छृणु । प्रादयो हि वृत्तिविषये सक्रियं साधनमाहुः । समासान्तस्यानित्यत्वादिति । इद्द राजनशब्दस्य पाठ एव ज्ञापयति समासान्ता अनित्य इति । अन्यथा 'राजाहः सखिभ्यष्टच्' इति टचश्चित्त्वादेव सिद्धं स्यात् । सोरव । सोरुत्तरपदं निन्दायामन्तोदात्तं स्यात्तत्पुरुषे । सुप्रत्यवसित इति । 'सुः पूजायाम्' इति कर्मप्रवचनीयस्य सोः 'स्वती पूजायाम्' इति समासः । तेन सुप्रत्यवसिते याथादिविधिर्न शङ्कनीयः यः । ननु यदि सुशब्दोऽत्र पूजायां वर्तते कथं तर्हि पो गम्यत इत्याह वाक्यास्त्विति । कथमित्याइ श्रसूययेति । यस्त्वनर्थे उपस्थिते सुखायमान श्रास्ते तं प्रत्येवमुक्ते क्षेपो गम्यते । विभाषोत् । उच्छब्दात्परः पुच्छशब्दः अन्तोदात्तो
प्रतीयते । नेरनि । निशब्दादुत्तरपदमन्तोदात्तं स्यादनिधानेऽर्थे । निमूलमिति । निर्गतं मूलमस्येति, निर्गतं मूलमिति वाऽर्थः । श्रव्ययीभावे तु समासान्तोदात्तत्वेनैव सिद्धम् । निदण्ड इति । निशब्दोऽत्र निधानार्थं ब्रवीति । प्रादयो हि वृत्तिविषये सक्रियं साधनमाहुः । अनित्यस्वादिति । श्वादिषु राजन्शब्द पाठ एवात्र ज्ञापको बोध्यः । श्रंशु, जन, राजन्, उष्ट्र, खेटक, अजिर, आदर्श, श्रवणं, कृत्तिका, अर्ध पुर। नृत्। उपाय | गौर, तैष, तेल, लेट, लोट, जिह्वा, कृष्ण, कन्या, गुध, कल्प, पाद । वृत् । उप॑गौर इति । श्रव्ययपूर्वपदस्वरः । बहुव्रीह्रावप्येवम् ।