________________
प्रकरणम् ] सुबोधिनी-शेखरसहिता।
[ ५६५ अधेरुपरिस्थम् । (६-२-१८८) अध्यारूढो दन्तोऽधिदन्तः । दन्तस्योपरि जावो दन्तः । उपरिस्थं किम्-प्रधिकरणम् । ३६२३ अनोरप्रधानकनीयसी। (६-२-१८६) अनोः परमप्रधानवाचि कनीयश्चान्तोदात्तम् । अनुगतो ज्येष्ठोऽनुज्येष्ठः । पूर्वपदार्थप्रधानः प्रादिसमासः । अनुगतः कनीयाननुकनीयान् । उत्तरपदार्थप्रधानः । प्रधानार्थ च कनीयोग्रहणम् । अप्रेति किम्-अनुगतो ज्येष्ठोऽनुज्येष्ठः । ३९२४ पुरुषश्चाऽस्वादिष्टः। (६-२-१६०) मनोः परोऽन्वादिष्टवाची पुरुषोऽन्तोदात्तः । अन्वादिष्टः पुरुषोऽनुपुरुषः । अन्वादिष्टः किम्-अनुगतः पुरुषोऽनुपुरुषः । ३६२५ अतेरकृत्पदे । (६-२-१६१) मतेः परमकृदन्तं पदशपश्चान्तोदात्तः । प्रत्यकुशो नागः । प्रतिपदा गायत्री। प्रकृल्पदे किम्-प्रतिकारः । * अतेर्धातुलोप इति वाच्यम् । इह मा भूत् । शोभनो गार्योऽतिगायः । इह च स्यात् । प्रतिक्रान्तः कालमा ज्ञापयति समासान्ता अनित्या इति। स्फिगपूत कुक्षिग्रहणमिति । यदा तानि स्वानवाचीनि ध्रुवाणि च भवन्ति बहुव्रीहिश्च समासस्तदा 'उपसर्गात्स्वाणम्' इत्येव सिद्धम् । अधेः। अधेरुत्तरमुपरिस्थवाचि अन्तोदात्तं स्यात् । उपरि तिष्ठतीत्युपरिस्थम्। 'सुपि स्थः' इति कः । तदेतद्दर्शयति. दन्तस्योपरीति । अधिकरणमिति । 'अधिक्रियतेऽस्मिन्नित्यधिकरणं नैतदुपरिस्थवाचि कि त्वधः स्थवाचि। अत्र कृदुत्तरपदप्रकृतिस्वरेणाकार उदात्तः । अनुज्येष्ठ इति । उत्तरपदार्थस्याप्राधान्यं दर्शयति पूर्वपदार्थप्रधानः प्रादिसमासोऽयमिति । प्रधानार्थ च कनीयोग्रहणमिति । अन्यत्राप्रधानग्रहणेनैव सिद्धत्वात् । अनुगतो ज्येष्ठ इति विप्रहविशेषेण प्रधानवाचित्वं ज्येष्ठशब्दस्य दर्शयति पुरुष । अन्वादिष्ट इति । अनु पश्चादादिष्टः कथितः । कमिश्चित्कथिते योऽन्यः कथ्यते सोऽन्वादिष्ट इत्यर्थः । अतेरकृत्पदे । अकृच्च पदं च अकृत्पदे । तदाह अकृदन्तं पदशग्दश्चेति। अत्यङकुश इति। अकुशमतिकान्त इति विग्रहः । प्रतिकारक इति । शोभनः कारकः । पूजार्थोs. यमितिः । अतेर्धातुलोप इति । अत्यङ्कुशादौ वृत्तिविषयेऽतिशब्दोऽतिक्रान्तार्थधृत्तिरिति क्रमेरप्रयोग एव धातु लोपः। अतिगार्य इति । यथान्यासे त्वत्रापि संबन्ध इति तत्वम् । स्फिगपूतकुक्षिग्रहणमिति । वीणाग्रहणसहितः पाठोऽ. पपाठः । प्रादिसमास इति । अव्ययीभावे तु समासान्तोदात्तत्वेनाऽपि सिद्धम् । पुरुषाश्चाऽन्वा । अन्वादिष्टोऽप्रधानशिष्टः । यथा भिक्षामटेत्यादौ । यद्वा कमि. श्चित्कथिते योऽन्यः पश्चात्कथ्यते सोऽन्वादिष्टः। अतेर । अकृदन्तं पदशब्दश्चेति । अयचाऽर्यो वृत्तौ ।भाष्यातु अतेरुत्तरपदमन्तोदात्तम, कृदन्तम, पदशब्दश्च वर्जयित्वेत्यर्थः