SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् । सुबोधिनी-शेखरसहिता । [५६३ (६-२-१७८ ) समासमात्रे उपसर्गादुत्तरपदं वनमन्तोदात्तम् । तस्यदि प्रवणे । ३६१३ अन्तः । (६-२-१७६ ) अस्मात्परं वनमन्तोदात्तम् । अन्तर्वणो देशः । भनुपसर्थमिदम् । ३६१४ अन्तश्च । (६-२-१८०) उपसर्गादन्तःशब्दोऽन्तोदात्तः । पर्यन्तः । समन्तः। ३६१५ न निविभ्याम् । (६-२-१८१) न्यन्तः । व्यन्तः । पूर्वपदप्रकृतिस्वरे यणि च कृते 'उदात्त. स्वरितयोर्यणः' (३६५७) इति स्वरितः । ३६१६ परेरभितोभावि मण्डलम् । (६-२-१८२) परेः परमभित उभयतो भावो यस्यास्ति तस्कूलादि मण्डलं चान्तोदात्तम् । परिकूलम् । परिमण्डलम् । ३६१७ प्रादस्वाङ्गं संज्ञायाम् । दैवेत्यध्रुवम् । वनं समासे । बहुवीहावित्यस्य निवृत्त्यर्थ समासग्रहणम् । प्रवण इति । बहुव्रोही तत्पुरुषे च पूर्वपदप्रकृतिवरे प्राप्ते । 'प्रनिरन्तः-' इति णत्वम् । अन्तः। अन्तःशब्दात्पञ्चम्याश्छान्दसो लुक् । तदाह अस्मात्परमिति । अन्तःशब्दात्परमित्यर्थः । अन्तर्वण इति । अत्रापि तेनैव णत्वम् । अनुपसर्गार्थमिति । उपसर्गे तु पूर्वेणैव सिद्धम् । न निविभ्याम्। निविभ्यामुत्तरोऽन्तःशब्दो नान्तोदात्तः स्यात् । पूर्वपदप्रकृतिस्वर इति । बहुव्रीहिसमासे 'बहुव्रीही प्रकृत्या' इति तत्पुरुषे 'तत्पुरुषे तुल्यार्थ-' इत्यनेन । परेरभितः । परेरुत्तरोऽभिशब्दो भाववाची मण्डलं चान्तोदात्त स्यात्। अभितोभावीत्यस्यार्थमाह अभितो भावोऽ. स्यास्तीति । अथवा अभित उभयतो भवति नद्यादौ कूलादिकमित्यभितोभावि । 'सुप्यजातौ ' इति णिनिः । परिकलभिति। बहुव्रीहिः प्रादिसमासोऽव्ययीभावो वा। तत्र बहुव्रीहौ तत्पुरुषे च पूर्वपदप्रकृतिस्वरे प्राप्ते, अव्ययीभावे तु 'परिप्रत्युपापा-' इति. 'कूलतीर-' इति च प्राप्ते परितः कूलमस्य, परिगतं कूलमिति वा कूलात्कूलं वर्जयित्वेत्यर्थ इति । उदकस्याभाव इव विग्रहः। प्राद । प्रादुत्तरमस्वामवाचि संज्ञाभावः । तत्पुरुषे त्वव्ययपूर्वपदप्रकृतिस्वर एव । पशुः पार्श्वम् । प्रवण इति । बहुव्रीहौ तत्पुरुषे च पूर्वपदप्रकृतिस्वरः प्राप्तः । 'प्रनिरन्तः' इति णत्वम् । परिवने 'परिप्रत्युपाति प्राप्तम् । उपसर्गास्किम् ? शरवणो देशः । बहुव्रीहावित्यस्य निवृत्त्यर्थ समासग्रहणम् । अन्तः। अन्तर्वणमित्यव्ययीभावेऽप्येतदेव । न निविभ्याम । निविभ्यामुत्तरोऽन्तशब्दो नाऽन्तोदात्त इत्यर्थः । परेरभितोभावि म । अभितः= उभयतो भवत्यवश्यमिति 'सुप्यजातौ' इति णिनिः । नद्यादौ हि कूलाधुभयतो भवति। परिकलमिति। बहुव्रीहिः, प्रादिसमासोऽव्ययीभावो वा। अत्र 'परिप्रत्युपे'ति. 'कूलतीरेति वा प्राप्तम् । प्रादस्वाझं स । प्रादुत्तरपदमस्वानवाचि सज्ञायामन्तोदात्तं समासमात्रे इत्यर्थः । प्रग्रहादयः प्रगृहादयो वा प्रादिसमासाः, बहुव्रीहयो वा।
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy