________________
प्रकरणम् ] सुबोधिनी-शेखरसहिता। [ ५६१ बहुव्रीहावुत्तरपदमन्तोदात्तम् । अव्रीहिः । सुमाषः। ३६०७ कपि पूर्वम् । (६-२-१७३) नसुभ्यां परं यदुत्तरपदं तदन्तस्य समासस्य पूर्वमुदात्तं कपि परे । प्रब्रह्मबन्धुकः सुकुमारीक: ३६०८ ह्रस्वान्तेऽन्त्यात्पूर्वम् । (६-२१७४) हस्वान्त उत्तरपदे समासे वान्स्यारपूर्वमुदात्तं कपि नसुभ्यां परं बहुबीहौ । अत्रीहिकः । सुमाषकः । पूर्वमित्यनुवर्तमाने पुनः पूर्वग्रहणं प्रवृत्तिभेदेन नियमार्थम् । हस्वान्तेऽन्स्यादेव पूर्वपदमुदात्तं न कपि पूर्वमिति । अज्ञकः । कव. मुत्तरपदमन्तोदात्तं स्यात् । समासान्ता उत्तरपदावयवाः । तेनातृव इत्यत्र 'ऋक्पूर्.' इत्यप्यकारस्योदात्तत्वं भवति । समासावयवाः समासान्ता इति पक्षे तु अस्मिन् सूत्रे समासस्यैव कार्थित्वमाश्रीयते नोत्तरपदस्य 'कपि पूर्व'मिति ज्ञापकात् । यद्यनेनो. तरपदस्यान्तोदात्तः स्यात् ततोऽकुमारीक इत्यादावनेनैव सिद्धत्वात्कपिपूर्वमित्यवाच्यं स्यात् । कपि पूर्वम् । पूर्वेण कप एवोदात्तत्वे प्राप्ते ततः पूर्वस्योदात्तत्वं विधीयते 'ह्रखान्तेन्त्यात्पूर्वम्' इति वचनादिह दीर्घान्ता एवोदाहृताः । उदाहरणे 'नवृतश्च' इति कप् । ह्रस्व (न्ते । ह्रखः अन्तो यस्य तदिदं ह्रखान्तमिति बहुव्रीहेरन्यपदार्थ उत्तरपदं समासो वा गृह्यत इत्याशयेनाह उत्तरपदे समासे वेति । अत्र कपि पर इति सामान्यवचनात्तद्रहितमुत्तरपदं समासो वा गृह्यते । ननु पूर्वग्रहणमनर्थकं कपि पूर्वमित्यनुवृत्तेरत आह पूर्वमित्यनुवर्तमान इति। प्रवृत्तिभेदेन वाक्यभेदेन । तत्रैकेन वाक्येन ह्रस्वान्तन्त्यात्पूर्वस्योदात्तत्वं विधीयते । द्वितीयेन तु नियम्यते । ह्रस्वान्तेऽन्त्यादेव पूर्वमुदात्तं भवति । न कपि पूर्वमिति । तेन किं सिद्धप्रालीकप्रतीपकरुणाः । कृष्णसोढौ इमे सुखादयो दश गणे पठिता' इति । श्लोकगणकारः। गणरत्ने तु प्रास्यशब्दोऽपीह पठ्यत इत्युक्तम् । पूर्वसूत्रे जातातिरिक्ततान्तमुदाहर्तुमुचितम् । नसुभ्याम् । उत्तरपदमिति । समासान्तानां समासावयवत्वेऽपि 'कपि पूर्वमित्यस्मादेव ज्ञापकादुत्तरपदाधिकारेऽप्यत्रं सूत्रे समासस्यैव कार्थित्वम् अन्यत्रोत्तरपदस्यैव कार्यित्वं समासान्तरहितस्य । स्पष्टश्चेदम् 'अन्तः' इति सूत्रे भाष्ये । कपि पूर्वम् । नसुभ्यां परं यदुत्तरपदं तस्य कपि परे पूर्वमुदात्तमित्यर्थः, तदन्तस्य समापस्येत्यर्थो वा। पूर्वसूत्रापवादः । ह्रस्वान्ते । नसुभ्याम् , कपि इति च वर्तते । 'कपि पूर्व'मित्यस्यापवादः । ह्रस्वान्तोत्तरपदकसमासे नसुभ्यां परस्य कपिपूर्वस्योत्तरपदस्याऽन्त्यात्पूर्वमुदात्तमिति सूत्रार्थः । पूर्वग्रहणमिति । पूर्वप्रहणेऽनुवर्तमाने पुनस्तद्ग्रहणमित्यर्थः । एतदर्थमेव पूर्वसूत्रे पूर्वग्रहणम् , अन्यथा 'कपी'त्येव वदेदिति भावः । अज्ञक इति । अन्स्यात्पूर्व उदात्तभावी नास्तीति एतदभावे ‘कपि पूर्वमिति प्राप्तमनेन नियमेन व्यावय॑ते । तेन 'नम्सुभ्या'मिति